- इत्यादावनन्वयेन सहायैकाभिधानलक्षणो न संकरः । अन्योन्यापेक्षया
शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेर्भिन्नविषयत्वात् ।
‘अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ।।'
तदेवं पौनरुक्त्ये पञ्चालंकार ।
निर्गदव्याख्यातमेतत् ।
वर्णानां खङ्गाद्याकृतिहेतुत्वे चित्रम्
पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवे
गुणीभावः । बाधः पुनः स्वस्मिन्नेवाविश्रान्तिरित्यनयोर्महान्भेदः । नाप्यत्र किंचित्प्रयोजनं न वारूढिरियमित्येतत्पौनरुक्त्यमात्रम् । एवम्, ‘सितकरकररुचिरविभा विभाकराकार ध रणिधरकीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥' इत्यादावपि ज्ञेयम् । चमत्कारस्त्वत्रानुप्रासकृतोऽवसेयः । नन्वनन्वयेऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालंकारः किमु स एवेत्याशङ्कयाह-अनन्वय इत्यादि । आनुषङ्गिक मिति । न पुनः साक्षात्प्रयोजकमित्यर्थः । शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात् । अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः । तत्तु यथा-‘यच्च क्षुर्जगतां सहस्रकरवद्धाम्रां च धामार्कवन्मोक्षद्वारमपावृतं च रविवद्धान्तान्तकृत्सूर्यवत् । आत्मा सर्वशरीरिणां सवितृवत्तिग्मांशुवत्कालकृत्साध्वीं नः स गिरं ददातु दिनकृद्योन्यैरतु ल्योपमः ॥’ अत्र सहस्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीतिं विघ्नयन्तीति शब्दै क्याभावोऽनौचित्यमावहति न पुनरनन्वयस्याभावात् । ‘स्थैर्याद्भूर्व्यापकत्वाद्वियदखिलजग त्प्राणभावान्नभस्वान्भास्वान्विश्वप्रकाशाद्युगपदपि सुधासूतिराह्मादनाच्च । वह्निः संहारकत्वा ज्जलमखिलजनाप्यायनाच्चोपमानं सत्यात्मत्वेऽपि यस्य प्रभवतु भवतां सोऽष्टमूर्तिः शिवाय।' अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्याभावो नानीचित्यावहः । तुशब्दो व्यतिरेके । साक्षादिति । शब्दैक्यं विनास्यानुत्थानात् । एतद्देवोपसंहरति--तदेवमित्यादि पुनवक्तवदाभासमर्थपौनरुक्त्याश्रितं, छेकानुप्रासादयत्नयः शब्दपौनरुक्त्याश्रयाः । लाटा नुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्याश्रिता अलंकाराः । यद्यप्युत्तेः शब्दार्थगतत्वेनो चरणाभिधानतया भेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादे कत्वेन प्रतीतेरुक्तिसामान्यानिबन्धनमेव प्रकारिप्रकारभाववचनम् । यच्चार्थभेदेन शब्दस्यापि भिन्नत्वं तदवास्तवम् । प्रतीतावेकतयैवावभासात् । अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः । वर्णानामित्यादि । उच्चारणकाले स्थानविशेषश्लिष्टवर्णात्मकखङ्गादिसंनिवेश स्वाभावात्पौनरुक्त्यप्रतीतिर्नात्रेति किमाश्रयोऽयमलंकार इत्याशङ्कयाह--यद्यपीत्यादि ।
१. ‘निर्विवादं व्याख्यातम्’ ख.