पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
अलङ्कारसर्वस्वम्

तवर्णीत्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारोऽयम् । आदिग्र

हणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः । यथा


‘भासते प्रतिभासार रसाभासाहताविभा ।
भावितात्माशुभावादे देवाभा बत ते सभा ॥

एषोऽष्टदलपद्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षर

त्वम् । विदिग्दलेषु त्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव ।

 उपमानोपमेययोः साधर्मये भेदाभेदतुल्यत्वे उपमा ॥


 अर्थालंकारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनि

षेधार्थम् । साधर्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । अभे

दप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहुः-‘यत्र किं


लिप्यक्षराणां मषीबिन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्या औपचारिकोऽयं श ब्दालंकार इति तात्पर्यार्थः । आदिग्रहणं सफलयितुं पद्मपन्धेनोदाहरति-भासते त्यादि । खङ्गबन्धः पुनर्यथा-‘स पात्रीभविता मोक्षक्षणलक्ष्म्या भवारसः ' । समस्तज नतायाससमुद्राभिन्नताभिदः ॥' श्लिष्टमेवेति । अष्टदिक्कमपि निर्गमप्रवेशयोः । उपमा नेत्यादि । अर्थेति । शब्दालंकारनिर्णयानन्तरमवसरप्राप्तमित्यर्थः । ननूपमानोपमेययो रेव साधर्म्यं संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्याशङ्कयाह-उपमा नेत्यादि । तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तम् । यथा-‘कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनञ्श्रृङ्खला इव । मनस्तु साधु ध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥’ अत्र क्वणनादेर्धर्मस्योपमानेऽन्यतां करोतीति लिङ्गभेदो दुष्टः । यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेऽपि सिद्धत्वादुपमाने तत्संबन्धस्य स्वयमेवावगमा तस्य न शाब्दता युक्तत्युपमानपारतन्त्र्येण लिङ्गादिविपरिणामो न कार्य इति न लिङ्गभेदादे र्दुष्टत्वम् तथाप्युपमानवाक्यस्य साकाङ्कत्वात्प्रतीतिविश्रान्तेः शाब्दस्तत्संबन्ध उपयुक्त एव । नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात् । केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः । तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानुगामित्वम् । तलिङ्गभेदादेरपि दुष्टत्वं युक्तम् । उपमेयस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वम् । यथा-‘गौरः सुपीवराभोगो रण्डाया मुण्डितो भगः । मेरोरर्कहयोल्लीढशष्यहेमतटायते ॥ अत्र तन्वङ्गया रूपवर्णने भग वर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वम् । भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषय विभागेण व्यवस्थिति दर्शयति-साधर्म्य इत्यादिना । एतैरेव च त्रिभिः प्रकारैः:साधर्म्याश्रयः


१. ‘धर्मस्योपमानैक्यतां' क.