पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
अलङ्कारसर्वस्वम्


यैकरूप्येण निर्देशः । क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः । पृथड़निर्देशे

च संबन्धिभेदमात्रं प्रतिवस्तूपमावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् ।

क्रमेणोदाहरणम्--

‘प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥

‘यान्त्या मुहुर्वलितकंधरमाननं त
दावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ॥

अत्र वलितत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रति
बिम्बत्वमेव।

‘पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो नवचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्भार इवाद्रिराजः ।।'


सन्नमाकाशमाविष्कृततारतारम् ॥’ अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छायापथयोर्द्र व्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगतत्वेनोपनि बद्धम् । एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निर्निमित्तमेव प्रक्रियान्तरमाश्रित्य यद न्यैरुत्तं तदयुक्तमेवेत्यलं बहुना । एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यम् । एतच न तथा वैचित्र्यावहमिति ग्रन्थकृता नोक्तम् । ऐक्यरूप्येणेति । सकृत् । यद्वक्ष्यति ‘तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देश उपमा' इति । पृथङ्निर्देश इति । अस कृदित्यर्थः । यद्वक्ष्यति-‘वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव' इति । साधारणधर्म स्येत्यत्रापि संबन्धनीयम् । वस्तुप्रतिवस्तुभावेऽपि द्वैविध्यमित्याह-पृथड़निर्देश इत्यादि । संबन्धिभेदमात्रमिति । न पुनः स्वरूपभेदः कश्चिदित्यर्थः । यद्वक्ष्याति-असकृन्नि र्देशे शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा' इति । एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलंकाराणां जीवितभूतत्वेन संभवतीत्यप्रत एव तत्रतत्रोदाहरिष्यामः । क्रमेणेति यथोद्देशम् । संबन्धिभेदादिति । संबन्धिनोः कंधरावृन्तयोर्भेदात् । न तु हारनिर्झरादिवत्स्वरूपतो भेदः । वस्तुत एकत्वाद्वलितत्वाधृत्तत्वयोरभेदः । ननु यदि व लितत्वावृत्तत्वाख्यो धर्म आननशतपत्रयोः शुद्धसामान्यरूपतयोषात्तस्तद्धर्मी कंधरावृन्त रूपः पुनः किंरूपतयेत्याशङ्कयाह-धर्म्यभिप्रायेणेत्यादि । एवकारः शुद्धसामान्य रूपत्वव्यवच्छेदक । कंधरावृन्तयोश्च यथोक्त धर्मित्वेऽप्याननशतपत्रापेक्षया धर्मत्वमेव युक्तम् । आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् । अत एवास्यावास्तवत्वं पूर्वमुक्तम् ।


१. ‘तारतम्यम्’ क. २. ‘यदन्यैराश्रित्योत्तं' क.