पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला

श्रीमद्राजानकरुय्या(च)कप्रणीतम्

अलंकारसर्वस्वम् ।

श्रीमद्राजानकजयरथप्रणीतयालंकारविमर्षिणीसमाख्यया व्याख्यया समेतम् ।

नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् ।
निजालंकारसूत्राणां तात्पर्यमुच्यते ॥

मङ्गलकामनया ग्रन्थकृन्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्यं चैकेनैव वाक्येन परामृशति-नमस्कृत्येति। परां वाङ्मयाधिदेवतां पराख्यां शब्दब्रह्मणोऽपृथग्भूतां शक्तिं परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलसिविषया पश्यन्तीमध्यमावैखरीरूपेण कारत्रयेणाधिष्ठिदशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थसमाप्तये तां प्रति कायवाङ्मनोभिः प्रङ्गीभूय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना । तथा चात्रोक्तलक्षणार्थविस्तरः -- 'येयं विमर्शरूपैव परमार्थचमत्कृतिः । सैव सारं पदार्थानां परा वागभिधीयते ॥ नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता । अनादिनिधना सैव सूक्ष्मा वागनपायिनी ॥ अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ वैख​री शब्दनिष्पत्तिर्मध्यमा स्मृतिगोचरा। द्योतिकार्थ​स्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम् ॥’ इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दब्रह्मणः शक्तेर्ब​हिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम । तथा चोक्तम्-- 'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वा अनपायिनी ॥’ इति । अस्यार्थः - अविभागा स्थानकरणप्रयत्नप्रकारेण वर्णानां विभागहीना अत एव संहृतक्रमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च​ सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तः सूक्ष्मबीजादङ्कुरमिव बहिरुन्मिन्ती किंचिदुच्छना पराया मध्यमायाश्चावस्थां तटस्थां पश्यतीति पश्यन्तीत्युच्यते । तः परं तु --'अन्तः संकल्परूपा या क्र​मरूपानुपातिनी । प्राणवृत्तिमतिक्र​म्य मध्यमा वाक्प्रवर्तते ॥’ एतत्क​थयामीति विमर्शरूपा अन्तः संकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्य

वर्णाभिव्यक्तिरहिता क्र​मरूपानुपातिनी मानसीकवर्णोच्चारणक्रमेण द्वितीयो विवर्तो मध्यमारूपो जायते । मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्ये