पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
काव्यमाला ।


अत्र हाराङ्गरागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ।


अतश्चाननशतपत्रापेक्षया इति न व्याख्येयम् । तयोरुपमानोपमेयभाववाचोयुक्तरेव युक्त त्वात् । एवं च सति कंधरावृन्तयोः स्वरूपमनभिमतं स्यात् । अनेनैव च बिम्बप्रतिबि म्बभावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनः ‘पाण्ड्योऽयम्’ इत्याद्युदाहृतम् । हाराङ्गरागयोरिति । स्वरूपयोरिति शेषः । न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्श्य वाक्यार्थगतामुपमामाशङ्कय गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः । यावता हि सा धारणधर्मनिबन्धनमुपमास्वरूपं स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः । निर्देशपक्षे चास्य त्रैविध्यमुक्तम् । अनिर्देशपक्षे चास्य न वैचित्र्यं किंचिदिति न तदाश्रयं भेदजात मुक्तम् । अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना । वाक्यार्थोपमागन्धोऽप्यत्र नास्ति । स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादृशैरेव ध र्मिभिः साम्ये भवति । यथा -‘जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोऽभवत् । रत्न सूतेर्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥' अत्र जनयित्र्यादीनां रत्नसूयादीन्युपमानान्युपा त्तानि । एतेषां धर्मित्वं परस्परावच्छिन्नत्वं च स्फुटमेव । बिम्बप्रतिबिम्बभावः पुनर्धर्मि विशेषप्रतिपादनोन्मुखानां धर्माणां भवति । यथात्रैव । अत्र हि हाराङ्गरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानम् । इन्दुमतीं प्रति तस्य विशिष्टालम्बनविभावत्वेन विव क्षितत्वात् । अतश्च तयो * परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयता याः । एवं पाण्यस्याद्रिराजेन हारनिर्झरादिधर्मनिमितैवोपमा । तावन्मात्रेणैव सादृश्य पर्यवसानात् । तच्च हारादेः साधारणधर्मस्य बिम्बप्रतिबिम्बत्वादृष्टान्तन्यायस्यैतत्सूदाह रणमेव । ननु हारनिर्झरयोस्तदतद्वामित्वाभावात्कथं साधारणधर्मतेति चेत्, उच्यते —अ- स्यास्तावद्धर्मस्य साधारण्यं जीवितम् । तच्च धर्मस्यैकत्वे भवति । न च वस्तुतोऽत्र धर्म स्यैकत्वम् । नहि य एव मुखगतो लावण्यादिर्धर्मः स एव चन्द्रादौ । तस्यान्वयासंभ वात् । अपि तु तज्जातीयोऽत्रान्योऽस्ति धर्मः । एवं धर्मयोर्भेदात्साधारणत्वाभावादुपमायाः स्वरूपनिष्पत्तिरेव न स्यात् । अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनि मित्तमन्यदन्वेष्यम् । तत्राप्यन्यदित्यनवस्था स्यात् । ततश्च धर्मयोर्वस्तुतो भेदेऽपि प्रती तावेकतावसायाद्रेदेऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयम् । अन्यथा ह्युपमाया उत्था नमेव न स्यात् । एवमिहापि हारनिर्झरादीनां वस्तुप्रतिवस्तुतयोपात्तानां वस्तुतो भेदेऽप्य भेदविवक्षकत्वं ग्राह्यम् । अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपम्यसमुत्थाने निमित्तत्वमेव न स्यात् । न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तम् । अत एवात्र बिम्बप्रतिविम्ब भावव्यपदेशः । लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मद्दीयमेवात्र वदनं सं क्रान्तमित्यभेदेनाभिमन्यते । अन्यथा हि प्रतिबिम्बदर्शने कृशोऽहं स्थूलोऽहमित्याद्यभि मानो नोदियात् भूषणविन्यासादौ च नायिका नाद्रियेरन् । प्राच्यैरपि-‘स मुनिर्ला ञ्छितो मौक्या कृष्णाजिनपटं वहन् । व्यराजनीलजीमूतभागश्लिष्ट इवांशुमान् ॥'


१. ‘पर्यवसानमू' क. २. ‘विवक्षेत्येकत्वं' ख. ३. ‘इति' क.