एकस्यैवोपमानोपमेयत्वेऽनन्वयः ।।
वाच्याभिप्रायेण पूर्वरूपावगमः । एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयस
ब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभवति। यथा--
द्वयोरौपम्यप्रतीतेः । सामान्यलक्षणस्यात्राप्यनुगमात् । अथात्र कल्पनास्तीति चेत्, न । एवं हि प्रतिभेदं लक्षणकरणप्रसङ्गः । समुच्चितत्वादेर्विशेषान्तरस्यापि भावात् । अथोपमानगुणविशिष्टोपमेयावगमफलत्वेनोपमायाः प्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथगलंकारत्वमिति चेत्, न । अत्रोपमेयस्योपमानगुणविशिष्टतयैव प्रतीतेः फलभेदाभावात् । तथा हि ‘आवर्जिता’ इत्यादौ भगवत्या लतायाः सादृश्यस्य संचारिणीत्वेनाभावो मा प्रसाङ्क्षीदिति तयोः साधर्म्यमेव द्रढयितुं कविना लतायाः संचारिणीत्वं कल्पितम् । नन्वत्र भगवत्या अन्यदुपमानं नास्तीति प्रतीयते । अनन्वयादिवदुपमानान्तरनिषेधस्य वाक्यार्थत्वात् । मैवम् । एवमुपमेयस्यापि वैशिष्ट्यकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यम् । समानन्यायत्वात् । तद्यथा दृढारोपे रूपके विषयविषयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिराधिक्यं वा कल्प्यते तथेहापि सामान्यदार्ढ्यायैव कल्पितत्वं ज्ञेयम् । अत्राप्यभेदालंकाराख्यालंकारान्तरत्वं न वाच्यम् । रूपकेणैवास्या विच्छित्तेः संगृहीतत्वात् । विषयविषयिणोरभेदो हि रूपकसतत्त्वम् । स एव चात्र दार्ढ्येन प्रतीयत इति को नामास्य रूपकात्पृथग्भावः । अभेदमात्रप्रतीतौ रूपकम्, नियतधर्महानावन्यतः सर्वतोऽप्यभेदप्रतीतावभेद इति प्रतीतिभेदोऽप्यस्तीति चेत्, न । एवं ह्यस्ति तावदभेदप्रतीतिरत्रानुगता । यस्तु विशेषः स पृथग्भेदत्वे व्यवस्थापकोऽस्तु न पृथगलंकारत्वे । नहि शावलेयता(?)मात्रेण गोत्वमश्वत्वव्यपदेश्यं भवति । एवं च ‘गृहीतविग्रहः कामो वसन्तः सार्वकालिकः । जहार हृदयं कामी नित्यपूर्णः सुधाकरः ॥’ इत्यादौ गृहीतविग्रहत्वादेर्नियतस्य धर्मस्याधिक्येऽप्यलंकारान्तरप्रसङ्गः । इयं च मालात्वादिनान्तभेदेति तद्ग्रन्थविस्तरभयान्न प्रपञ्चितम् । एकस्यैवेत्यादि । ननु सादृश्याश्रयाणामलंकाराणां लक्षयितुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्ठत्वेनैव संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशङ्क्याह-वाच्याभि प्रायेणेत्यादि । पूर्वरूपेति । सादृश्याश्रयत्वस्येत्यर्थः । अस्त्येव ह्यत्र शाब्दी सादृश्यप्रतीतिः । मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात् । अत एवाह-वाच्याभिप्रायेणेति । न पुनर्वस्त्वभिप्रायेणेत्यर्थः । वस्तुतो ह्येकस्यैव साध्यसिद्धधर्मरूपत्वासंभवादुपमानोपमेयत्वेऽपि विरोधः स्यात् । इत्थं शाब्दमेव सादृश्यानुगममाश्रित्येहास्य लक्षणम् । ननु यद्येवमेकस्योपमानोपमेयत्वं विरुध्यते तत्किं वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशङ्कयाह--एकस्येत्यादि । एवं चास्य द्वितीयसब्रह्मचारिनिवृत्तिरेवालंकारत्वप्रतिष्ठापकं प्रमाणम् । अन्यथा पुनर्नास्यालंकारत्वम् । यथा—‘तस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितंकरिणी जरेयम् । यद्गर्भरूपमिव मामनुशास्ति सो-
१. ‘मैवम्’ ख-पुस्तके नास्ति. २. ‘प्रसङ्गात्’ ख.