युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो
भीमोऽपि भीम इव वैरिषु भीमकर्मा ।
न्यग्रोधवर्तिनमथाधिपतिं कुरूणा
मुत्प्रासनार्थमिव जग्मतुरादरे ॥
- द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ।
ऽयमद्यापि तन्मयि गुरोर्गुरुपक्षपातः ॥’ अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशा तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारिनिवृत्तिप्रतिपत्त्यभावान्नायमलंकारः । एकस्यैवावस्थाभेदेन च सिद्धसाध्यधर्मसंभवान्नोपमानोपमेयत्वस्य विरुद्धधर्मसंसर्गः । अतः एवेति । विरुद्धधर्मसंयोगात् । एकस्यैव सिद्धसाध्यरूपेणोपमानोपमेयत्वेनाविद्यमानोऽन्वयः संबन्धो यत्र स तथोक्तः । अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितीयसब्रह्मचारि निवृत्तिरत्र जीवितभूता प्रतीयत एव । अत एव कार्तवीर्यहिंस्रसत्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणम् । 'इंतिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि । अणुहरइ णवरें तिस्सा वामाद्धं दाहिणद्धस्स ॥’ इत्यादौ चानन्वयोदाहरणत्वं न वाच्यम् । अत्रान्या नान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् । अस्य ह्युपमानान्तरनिषेधपर्यव साय्यभिधीयमानमेकस्यैवेपमानोपमेयत्वं स्वरूपम् । न च तदत्र शब्देनाभिधीयतेऽपि तु ५ यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येति वाच्यम् । एवं ह्यलंकारध्वनेर्विष यापहार: स्यात् । एवम् ‘गन्धेन सिन्धुरधुरंधर वक्रमैत्रीमैरावणप्रभृतयोऽपि न शिक्षि तास्ते । तत्त्वं कचत्रिनयनाचलरत्नभित्तिस्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥' इत्यत्राप्य नन्वयो न वाच्यः । स्वीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्गन्धस्याप्यभावात् । यदि नाम चै तत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वम् । यथोक्तन्यायात् । एवं च तदेकदेशे नावसितभेदेन वेत्यपास्य उपमानतया कल्पितेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयम् । प्रसमानमिवौजांसि सदसैर्गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ।।' इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तम् । एकस्यैव विध्यनुवादभावे तावस्थानादारोपाभावात् । द्वयोरित्यादि । द्वयोरित्युपमानोपमेययोः, न पुनर्द्विसंख्या कयोः । तेन, ‘कान्ताननस्य कमलस्य सुधाकरस्य पूर्वे परस्परमभूदुपमानभावः । सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतः ॥' इत्यत्र त्रयाणामप्युपमानोपमे यत्वं स्थितमस्या एवाङ्गम् । तच्छब्देनेति तस्मिन्नित्यनेन । यौगपद्याभाव इति क्रमरूप त्वात् । अत इति यौगपद्याभावात् । स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा-‘रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भू
| १. ‘एकस्यैव' ख-पुस्तके नास्ति. २. ‘एतावन्मात्रे जगति सुन्दरमहिलासहस्रभरिते । अनुहरति केवलं तस्या वामार्थे दक्षिणार्धस्य ॥’ इति च्छाया. ३. ‘उपमाननिषेध' ख. ४. ‘कथं'ख.५. ‘अपास्य तेनेवानन्वय इति सूत्रणीयम्'क. ६ . ‘स्यन्दनोत्कीर्णे:' क.