पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
काव्यमाला ।


तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो यौगपद्याभावः । अत

आद्ये यथा- एवात्र वाक्यभेदः । इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा ।

‘खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।’

द्वितीये यथा

‘सच्छायाम्भोजवदना सच्छायवदनाम्बुजा ।
वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ।।'

सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम् । यथा --


तलम् ॥’ अत्र भुवस्तलं व्योमेव कुर्वन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्य भेदः । आर्थो यथा-‘भवत्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती । इतरेतरसादृश्यसुभगा मेति वन्द्यताम् । अत्र स्फुटेऽपि शाब्दे एकवाक्यत्वे गङ्गा भक्तिवद्भक्तिश्च गङ्गावद्वन्द्ये त्यस्येवार्थो वाक्यभेदः । अस्याश्चोपमानान्तरतिरस्कार. एव फलम् । अत एवोपमेयेनो पमा इत्यस्या अन्वर्थाभिधानम् । यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नाय मलंकारः । यथा-‘सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । य मिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' न ह्यत्र विधुसवित्रादीनामुपमानान्त रतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भवतीति । साधा रण्य इति । एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वयागूरकत्वेनोक्तम् । तत्र निर्देशपक्षे साधारण्यमस्ति तथाप्यत्र सकृन्निर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः । अनि र्देशपक्षे तु वास्तवमेव साधारण्यम् । यदनुसारं खमिव जलमित्याद्युदाहृतम् । धर्मस्यानु गामित्वे तु यथा-‘कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिधृतिरिव धरणी सततं विभाति बत यस्य ॥’ अत्र विभातीति सकृन्निर्दिष्टम् । वस्तु प्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा । तत्र बिम्बप्रतिबिम्बभावो प्रन्थकृतैवोदाहृतः । तत्र ह्यम्भोजदनयोर्वेिम्बप्रतिबिम्बभावः । शु द्धसामान्यरूपत्वं यथा -‘उद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे। प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥' (अत्र) प्रस्पन्दमा नप्रचलितत्वेन शुद्धसामान्यरूपत्वम् । तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः । उन्मेषाभि प्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणम् । सदृशेति । वस्त्वन्तरमिति स्मर्य , माणम् । सदृशमेवेति । सादृश्यस्योभयनिष्ठत्वात् । अतश्च स्मर्यमाणनानुभूयमानस्य


१. “यदभिहितं बौद्धेः-सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति । वस्त्वन्तरं” ख.