पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
अलङ्कारसर्वस्वम्


‘अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ।।'

सादृश्यं विना तु स्मृतिर्नायमलंकार । यथा

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः) ।’

अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तृदशाभावित्वमसमीची नम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः ।


अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलंकारः । यदुक्तम्-यथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा । स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनी ॥’ इति ! त त्राद्यः प्रकारो ग्रन्थकृदुदाहरणे । तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितम् । द्वितीयस्तु यथा-‘तस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदली वेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां रामेव स्मरामि ॥’ अत्रानुभूयमानेन मेघेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्प नम् । एवं चात्र सादृश्यस्योभयसंबन्धेऽप्यनुभूयमानेनैव पुनः स्मर्यमाणप्रतीतिर्भवतीत्य वसेयम् । ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्कयाह-अविनाभा वेत्यादि । अविनाभावस्तादात्म्यान्नित्यसाहचर्याद्वा । अनुभूयमानस्मर्यमाणयोश्च तद् भावः । शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशयितसुरासुरप्रभावत्वादिधर्मोऽनुगा मितया निर्दिष्टः । वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति । तत्र शुद्धसामान्यरूपत्वेन यथा-‘सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः । कुर्वन्नजस्र यमुना प्रवाहसलीलराधास्मरणं मुरारेः ॥’ अत्र सोल्लासलीलत्वयोरेकत्वम् । बिम्बप्रतिबिम्बभा वेनापि यथा-‘पूर्णेन्दुना मेघलवाङ्कितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः । विवाहोमा नलधूमलेखाभिलत्कपोलां भवतीं स्मरामि ॥’ अत्र मेघलवधूमलेखादीनां बिम्बप्रतिबि म्बभावः । एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति-साद्यदृश्यमित्यादिना ।


सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुकत्वम् । स्मर्तव्यदशाभावित्व इति । स्मर्त व्यदशाभावित्वं वाच्यं सदनादृत्येत्यर्थः । अत एव वाच्यस्यावचनम् । स्मर्तृदशाभावित्व मित्यवाच्यस्य वचनम् । यद्यपि स्मर्तृदशायामतीतत्वात्कर्तृविशेषणानां मृगयानिवृत्तत्वादी- * नामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुर्विशेषणभा वेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणम् । प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलंकारस्येत्यादिना । तुशब्द१. 'स्मृतिगामिनी' ख.