पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
अलङ्कारसर्वस्वम्


अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्रुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणादूपकम् । साधर्म्यं त्वनुगतमेव । यदाहुः-'उपमैव


इति। प्रधानाप्रधानयोः संबन्धिशब्दत्वात् ।। अन्यत्रान्यावाप आरोप इति । अन्यत्रेति प्रकृते मुखादौ । अन्यस्येत्यप्रकृतस्य चन्द्रादेः । स च सामानाधिकरण्येन वैयधिकरण्येन च निर्देशे भवति । न तुसामानाधिकरण्येन निर्देश एव सः । एवं हि-‘याताः कणादतां केचित्’ इत्यादावारोपसद्भावेऽपि न सामानाधिकरण्यमस्तीति व्याप्तिः स्यात् । आर्थे सामानाधिकरण्यम स्तीतिनाव्याप्तिरिति चेत्, न। भिन्नयोः सामानाधिकरण्येन निर्देशो ह्यारोपलक्षणम् । न च तदत्रनिर्दिष्टम् । वैयधिकरण्येन निर्देशात्तस्यार्थावसेयत्वात् । अर्थावसायो निर्देशश्च नैकं रूपम्। विप्रतिषेधात्। नीलमुत्पलमित्यादावपि गुणजातिरूपत्वेन भिन्नयोर्नीलोत्पलयोः सामानाधिकर ण्येन निर्दशादारोपः प्रसज्यत इत्यतिव्याप्तिः स्यात् । न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि । इति न निरवद्यमेतदारोपलक्षणम् । यद्येवं तत्किंशब्दे श ब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेद्ब्रूमः । तत्र न शब्दे शब्दान्तरारोपः । मुखश ब्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रतीतेरन्योन्यविविक्तस्वविश्रान्तरूपोपलम्भादिति भवद्भिरेवो क्तत्वात् । किं त्वर्थेऽर्थान्तरारोपः । स च प्रयोजनपरतया तथा निर्दिश्यते न भ्रान्त्या । अत एव शुक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः । तस्य स्वरसत एवोत्थानेन भ्रमरूप त्वात् । अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छादितत्वेन प्रतीतिः । इह पुनर्जानान एव कश्चिचन्द्रविविक्तं मुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति । अत एवोक्तमारो पविषयानपह्नव इति । भवद्भिरप्यनेनैवाशयेन प्रतिपादनभ्रमोऽयं न भ्रान्ताप्रतिपत्तिरि त्याद्युक्तम् । तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः । ताभ्यामवष्टब्धत्वं युक्तम् । यदुक्तम्-‘सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा’ इति । अन्यथेति । अपह्नवे । एवमनेनापदुतिरूपकयोर्मेदोऽप्युक्तः । आहुरिति दण्डयादयः । “ अतश्च साधर्म्यसद्भावात्तदनुयायिभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयम् । यथा-‘कंदर्पद्विपकर्णक म्बुमसितैर्दानाम्बुभिर्लाञ्छितं संलग्नाञ्जनपुञ्जकालिकमलं गण्डोपधानं रतेः । व्योमा नोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम्।' अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम् । लाञ्छितत्वाङ्कितत्वयोः शुद्धसामान्यरूप त्वम् । सुधासहचरत्वस्यानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वम् । अनेन च सादृश्य निमित्त एवारोपो रूपकमित्युक्तं भवति । केषांचिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्ग मेवेति मतम् । यदाहालंकारभाष्यकारः-लक्षणापरमार्थं यावता रूपकस्वरूपं’ इत्युपं क्रम्य ‘सारोपान्या च सादृश्याद्वा संबन्धान्तराद्वा' इत्यादि । स तु यथा-‘अमृतकवलः शोभाराशिः प्रमोदरसप्रपा सितिमशकटं ज्योत्न्नावापी तुधारघरट्टिका । मनसिजवृसी श्रृं ङ्कारश्रीविमानमहो नु भो निरवधिसुखश्रद्धा दृष्टः कृती मृगकेतनः ॥’ अत्रेन्दुरूप कारणे