पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
काव्यमाला ।


तिरोभूतभेदा रूपकमिष्यते' इति । आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविभागः । इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आयं केवलं मालारूपकं चेति द्विधा । द्वितीयं समस्तवस्तुविष गमेकदेशविवर्ति चेति द्विधैव । तृतीयं श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्वि विधं सत्प्रत्येकं केवलमालारूपकत्वाचतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तु प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः । क्रमेण यथा


कार्यरूपायाः श्रद्धाया आरोप । ग्रन्थकृताप्यलंकारानुसारिण्यामत्र श्रद्धाहेतुत्वाच्छूद्धेत्य भिधाया विशेषेणैकस्मिन्ननेकवस्त्वारोपान्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः । ननु चाध्यवसायगर्भाणामप्यलंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः कि मिति लक्षिता इत्याशङ्कयाह-आरोपादित्यादि । चशब्दोऽन्यालंकारापेक्षया भेद समुचयार्थः । विषयद्योतकस्तुशब्दः । अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथो क्तम् । सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तम् । परम्परयैकस्य माहात्म्यादपरस्यारू पणत्वमायातं यत्र तत्तथोक्तम् । आद्यमिति निरवयवम् । माला चैकस्यानेकस्य वानेकारो पाद्रवति । एवं परम्परितत्वेन मालारूपकं ज्ञेयम् । द्वितीयमिति सावयवम् । समस्तमारो प्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तम् । एकदेश आरोपविषयाणामर्थात्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तदूपतया विवर्तते परिणमति यत्र तत्तथोक्तम् । तृतीय मिति परम्परितम् । यद्यपि श्लेषनिबन्धनेऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्या संभव एव । तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादृश्यं प्राह्यम् । अन्य इति एत द्भेदाष्टकव्यतिरिक्ताः । संभवन्तीति चिरंतनालंकारप्रन्थेष्वेव । न पुनर्लक्ष्यन्त इति भावः । तत्र हि तेषां तत्वेऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते । तथा च-‘पादः कूर्मोऽत्र यष्टिर्भुजगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरियं वृत्तवर्तिप्ररोहः । अविश्चण्डांशुरुच्चैर्गगनमलिनिमा कजलं दह्यमाना वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्र तापप्रदीपः ॥' इत्यत्र सत्यपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यम्। क्रमै- णेति यथोद्देशम् । द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालोचनयेन्दो स्मरकार्मुक त्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः । इन्दोश्चैकस्य बहव आ रोपा इति मालारूपकम् । अनेकस्य तु यथा-‘बाहू बालमृणालिके कुचतटी माणिक्यहर्म्यं रतेर्मुक्ताशैलशिला नितम्बफलकं हासः सुधानिर्झरः । वाचः कोकिलकूजितानि चिकुरा श्चेतोभुवश्चामरं तस्यास्रस्तकुरङ्गशावकदृश किं किं न लोकोत्तरम् ॥’ अत्रानेकेषामनेका रोपाद्रूपकमाला । इयं च श्लेषनिबन्धनापि दृश्यते । यथा-‘नेत्रे पुष्करसोदरे मधुमती


१. काश्मीरिकमहाकविजहूणप्रणीतसोमपालविलासकाव्यटीकायाम्.