पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
अलङ्कारसर्वस्वम्


दासे कृतागसि भवत्युचितः प्रभूणां
पादप्रहार इति सुन्दरि नास्मि दूये ।
उद्यत्कठोरपुलकाङ्करकण्टकाग्रै
र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥'
‘पीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये
स्वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृणालीलता ।
द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा
माशातन्तुरुदश्चति प्रतिपदि प्रालेयभानोस्तनुः ।।'
‘विस्तारशालिनि नभस्तलपत्रपात्रे
कुन्दोज्ज्वलप्रभमसंचयभूरिभक्तम् (३)
गङ्गातरङ्गघनमाहेिषदुग्धदिग्धं
जग्धं मया नरपते कलिकालकर्णं ।।'
‘आभाति ते क्षितिभृतः क्षणदाप्रभेयं
निर्स्त्रिंशमांसलतमालवनान्तलेखा ।
इन्दुद्विषो युधि हठेन तवारिकीर्ती
रानीय यत्र रमते तरुणः प्रतापः ।।'

क्षितिभृत इत्यत्र श्लिष्टपदं परम्परितम् ।


वाणी विपाशा मतिश्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः । चारित्रं ननु'पापसू दनमहो मामेष तीर्थाश्रयः स्नातुं वाञ्छति भूपतिः परमितीवोष्णोदकं वल्गति ॥’ अत्राने केषां श्लिष्टा अनेक आरोपिता इति श्लिष्टार्थरूपकमाला । आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोदायिते । यथा-‘भवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समु चिन्वन्नानाविषयवनराजीविकसिताम् । भवोद्याने भक्त्या तव सह विशेषोलसितया विहन्तुं व्यग्रः स्यामनुसृतविवेकप्रियसखाः ॥' अत्र भक्त्तेर्नायिकारोपस्याशाब्दत्वादेकदेशविवर्तित्वम् । ‘पीयूषस्याधरामृतेन श्लिष्टशब्दनिरूपणम्’ इति लेखककल्पितोऽयमपपाठो ज्ञेयः । अधरामृ तस्य हि पीयूषेण निरूपणमत्र स्थितम् । अतश्च ‘अधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपणम् ’ इति पाठो ग्राह्यः । अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदाहर णान्तरमुदाह्नियते । यथा-‘अलौकिकमहालोकप्रकाशितजगत्रय । स्तूयते देव सद्वैशमुक्ता रत्नं न कैर्भवान् ॥’ अत्र मुक्तारत्नमित्यारोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्दं


१. ‘प्रभवसंचय' क.