वर्तनान्मध्यमेत्युच्यते । तदनन्तरं च, 'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तृणां प्राणवृत्तिनिबन्धना ॥’ इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रोत्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलाससमुच्यपदवाक्यात्मकतृतीयो विवर्तो
वैखरीत्युच्यते । विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवायुसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति । विखरे शरीरे भवा वैखरीति वा केचित् । सिद्धो मङ्गलार्थः । तथा चात्र पूर्वार्ध एव पुनरावृत्याभिधेयपदार्थान्वययोजना-- यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृष्टाम् । देवीम् 'दिवु क्रीडाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिषु' इति यथायथं धात्वर्थानामनुस्मरणात् शक्तिमतां कवीनां श्रोतृणां च स्वभावात्स्वेच्छेया समुच्छलन्तीं क्रीडन्तीं । तथा देवीं विजिगीषुं शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्तमानाम् । तथा देवीं द्योतमानां द्योतनध्वननयोः पर्यायत्वाद्वनिसंज्ञाम् । ताथा देवीं स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्द्याम् । तथा देवीं व्यवहरन्तीं सर्वत्र प्रचरितां न तु क्वापि स्खलिताम् । तथा देवीं मोदमानां श्रुतिमात्रेणैव परमानन्ददायिनीम् । तथा देवीं माध्यन्तीं कवेः सहृदयस्य च यथायथं करणावबोधाभ्यां कमप्यहंकारं जनयन्तीम् । तथा देवीं कमनीयां सर्वैरभिलषणीय़ाम् । त्रिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्रहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्थाम् । तथा हि 'गङ्गायां घोषः' इत्यादिवाक्येषु घोषस्य यच्छैत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा। गङ्गादिशब्दानां शैत्याद्यर्थस्यावाचकत्वात् । न तात्पर्यात्मा । तात्पर्यशक्त्या ह्याधारधेयभावागमार्थे परस्परमन्वयमात्र एव क्षीणत्वात् । न लक्षणा । मुख्यार्थवाधादिहेतुत्रितयाभावात् । तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तचतुर्थकक्ष्यानिक्षिप्तो व्यञ्जनव्यापार इत्यादि सोऽयमेवाग्रे विमृष्यति विमर्षिणीकारः । अथ च व्यङ्गथस्य शब्दार्थोभयमूलत्वेन प्रसिद्धिस्त्रिविधो विग्रहो विशेषणानां भेदानां ग्रहो यस्या इति वा । एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनागुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्ष्णपरीक्षाविस्तरेण निर्णीय निजालंकारसूत्राणां वृत्या तात्पर्यमुच्यत इति । अस्याभिप्रायः -- तथा च ध्वनेर्मनागुद्देशमात्रमेव करोति 'इह हि भामह--' इत्यादिना । तदेतत्तावदास्ताम् । निजेति । परकीयाणां सूत्राणां तात्पर्यकथनानवमोधोऽपि स्यादिति भावः । तथा न कैश्चिदपि परैरींद्दशि सूत्राणि कृतानीत्यपि ध्यनितम् । तात्पर्यमिति । संक्षिप्तार्थप्रकाशनमित्यर्थः । अन्यथा हि कथनमेषां बहुनापि ग्रन्थेन पारं न यायात् । ननु 'आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने । प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धये ॥' इति नीत्या श्रोतृप्रवृत्यर्थे सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनाद्यभिदीयते । तच्चेह नोक्तमिति कथमत्र श्रोतॄणां प्रवृत्तिः स्यात् । मैवम् । अलंकारा ह्यत्राभि
1. ख-पुस्तके टीकायां प्रारम्भात्प्रभृति आस्तामित्यन्तो ग्रन्थो नास्ति २. 'प्रवरोत्साह' ख. ३. 'श्रोतृप्रवृत्तिः' ख.