पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला ।


ख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा-‘क्वचिज्जटावल्क लावलम्बिनः कपिलादावाग्नयः’ इत्यादौ । न हि कपिलमुनेर्बहुत्वम्

भ्रमिरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम्
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्

इत्यत्र नियतसंख्याककार्यविशेषेोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव । जलद भुजगजमिति रूपकसाधकमिति । पूर्वं सिद्धत्वाभावा तन्निबन्धनम् । विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहु

आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः

आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवले नान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरीपत्वेन परिणमति । आगमानुगमविगमख्यात्यभावात्सां


रूपात् । अतश्वारोप्यमाणस्य कपिलमुनेर्बहुत्वायोगाद्विषयसंख्यत्वम् । श्लिष्टतानिषन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं द्योतयितुमाह-भ्रमिमिति । प्रभावित इति । प्रथम मेव प्रतीतिगोचरीकृत इत्यर्थः । पूर्वं सिद्धत्वाभादिति रूपकस्य श्लेषहेतुत्वात् तन्निबन्धनमिति रूपकनिबन्धनम् । इतिशब्दो हेतौ । अतश्च श्लेष एवात्रालंकारो न पर म्परितं रूपकमित्यत्र तात्पर्यम् । चिन्त्यं चैतत् । यतः श्लेषस्तावद्वाच्ययोर्द्वयोः प्रकृतयोरप्र कृतयोः प्रकृताप्रकृतयोश्च भवति । अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् । वर्षासमये जलदस्येव जलस्य वर्णनीयत्वातू । प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि. साम्यमिति शब्दशक्तयुत्थितस्य ध्वनेरयं विषयो न श्लेषस्य अतश्च नात्र श्लेषालंकारः । नापि ध्वनिः । जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्त्या गर लार्थस्याभिधानात् । एवमत्र श्लिष्टशब्दनिबन्धनं जलदभुजगजमिति । रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनेर्विषयः स्यादित्युक्तम् । स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकम् । अन्यथा हि जलदभुज गजमिति रूपकं व्यर्थं स्यात् । तेन विना हि गरलार्थः प्रतीयत इत्यलं बहुना । आरो प्यमाणस्येत्यादि । आरोप्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्या चष्टे-आरोप्यमाणमित्यादिना । प्रकृतोपरञ्जकत्वेनेति। यदुक्तम्-विषयिणा विषयस्य रूपवतः करणाद्रूपकमिति । प्रकृतात्मतयेति । प्रकृताङ्गतयेत्यर्थः । उपयोग इति । तेन विना प्रकृतार्थस्यानिष्पत्तेः । परिणमतीति । प्रकृतमप्रकृतव्यवहारवि शिष्टतयावतिष्ठते । प्रकृतस्वरूपमात्रावस्थाने प्रकरणार्थानिष्पत्तेः । एवमत्र प्रकरणोपयो


रूपकमित्यनुचिन्त्यं चैतत्’ क ।।