ख्यीयपरिणामवैलक्षण्यम् । तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्वैवि ध्यम् । आद्यो यथा-
‘तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छ्रादन्वीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे ॥'
अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणान्तररूपत्वेन प रिणता । आतरस्य मैत्रीरूपतया प्रकृते उपयोगात् । तदत्र यथा समासो
गित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधा रणत्वं दर्शितम् । असाधारणत्वस्य हि धर्मस्य तत्वव्यवस्थापकत्वाल्लक्षणत्वम् । अतश्च ना स्त्येवालंकारान्तरेषु प्रकृतोपयोगित्वम् । एवम्—‘आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि स र्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥' इत्यत्रोपमा याम् । ‘अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुमवततार मध्यमं लोकमंशुमाली' इ त्यादावुत्प्रेक्षायाम् ‘मैन्दरमेहक्खोहिअससिकलहंसपरिअ (मु)क्कसलिलोच्छङ्गम् । मरगअ सेवालोवरिणिसण्णतुह्निक्कमीणचक्का अजुअम् ॥’ इत्यत्र च रूपके तथान्यालंकारेष्वौचित्य मेव नोपयोगः । औचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति । उपयोगः पुनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः । तथा हि-‘अनन्वये च शब्दैक्य मौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' इत्यत्रैकस्यैव शब्दै क्यमौचित्योपयोगाभ्यां भेद उक्तः । अतश्चौचित्योपयोगयोर्भेदमजानद्भिः सर्वत्रैव प्रकृतो पयोगित्वमन्यैर्यदुक्तं तदयुक्तम् । तस्माद्रूपकादन्य एव परिणामः । इह पुनः प्रकृतार्थस्या प्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव जीवितम् । ‘दाहोऽम्भः प्रसृतिंपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः । किं वान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छन्ननिरुद्धचन्द्रमहस स्तस्याः स्थितिर्वर्तते ।’ अत्र हि च्छत्रारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वम् । अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः । यद्येवं तर्हि सां ख्यीयपरिणामादस्य को विशेष इत्याशङ्कयाह-आरोपे(गमे)त्यादि । ‘जहद्धर्मान्तरं पूर्वमुपादत्ते यदा ह्ययम् । तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥' इति सांख्यीयपरि णामलक्षणम् । मैत्रीरूपतयेति । मैत्र्यात्मतयेत्यर्थः । उपयोगादिति । आतरमन्तरेण
१. ‘मन्दरमेघक्षोभितशशिकलहंसपरिमुक्तसलिलोत्सङ्गम् । मरकतशेवालोपरिनिषण्णः तूष्णीकमीनचक्रवाकयुगम् ॥' इति च्छाया. २. 'प्रकृतोपयोगित्वे च' क. ३. ‘ततश्च'ख ४. ‘परिणामः कस्मान्न भवतीत्याशङ्कयाह-आगमेत्यादि । यद्येवं तर्हि सांख्यीयपरिणाम लक्षणम्’ क.