पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
काव्यमाला ।


क्तावारोप्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्यवहारसमारोपः । एवमिहापि ज्ञेयम् । केवलं तत्र विषयस्यैव प्र योगः । विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं तादात्म्यात्तयोः परिणामित्वम् । द्वितीयो यथा-

अथ पक्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः
क्षतिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः

राजसंघटने तूपायनमुचितम् । तच्चात्र वचोरूपमिति वचसां व्यधिकर णोपायनरूपत्वेन परिणामः

विषयस्य संदिह्यमानत्वे संदेहः ।

अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः । यद्भित्तित्वेनाप्र कृतः संदिह्यते । अप्रकृते संदेहे विषयोऽपि संदिह्यत एव । तेन प्रकृताप्र


तरणायोगात् । अतश्च प्रकृते यत आतरस्योपयोगस्ततश्च प्रकृताया एव मैत्र्यास्तत्कार्य कारित्वात्तद्वयवहारारोपः । एतदेव दृष्टान्तमुखेनापि प्रतिपादयति-तदत्रेत्यादिना अत्रेति परिणामे । समासोक्तौ चारोप्यमाणस्य प्रकृतोपयुक्तत्वम् । प्रकृतसिद्धार्थमेवाप्रकृत स्याक्षेपात् । आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह- तच्चेत्यादि । अत एवेति । आरोपविषयात्मकत्वादेव । तत्रेति समासोक्तौ । एतदेव प्रकृते योजयति--एवमित्यादि । यद्येवं तर्हि समासोक्तिपरिणामयोः को विशेष इत्या शङ्कयाह-केवलमित्यादि । तयोरित्यभिधीयमानयोर्द्वयोः । उचितमिति । उपयु क्ततयेति शेषः । विषयस्येत्यादि । विषयविषयिणोः संबन्धिशब्दत्वाद्विषयस्योक्त्तेर्विष यिणोऽप्याक्षेपादत्र ग्रहणम् । तेन विषयस्य विषयिणश्च संदेहप्रतीतिविषयत्वं सूत्रार्थः । ननु विषयशब्देन विषयिशब्दस्य संबन्धिशब्दत्वादाक्षेपेऽपि विना वचनमाक्षेपमात्राद्विषयि णः कथं संदिह्यमानता लभ्यत इति चेत्, न । अनियतोभयाशावलम्बिविमर्शरीपत्वाद्विषयमात्रगत त्वेनासंभवात्संदेहस्यान्यथानुपपत्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः । एतदेव विभज्य व्याचष्ट-विषय इत्यादिना । यद्भित्तित्वेनेति। अ न्यथा ह्यप्रकृतस्य निर्विषयत्वमप्रस्तुताभिधानलक्षणो वा दोषः स्यादिति भावः । तेन विषयभित्तितया विषयिणामेव तथाभावो भवतीत्याशङ्कयाह-अप्रकृतेत्यादि । विष योऽपीति । न केवलं विषयेिण एव संदिह्यमानत्वं यावद्विषयस्यापीत्यपिशब्दार्थः।तेन क्वचिद्विषयिणामेव संदिह्यमानत्वं क्वचिच्च विषयविषयिणेोरप्यलंकारो भवेत् । उभयत्रापि सामान्यलक्षणानुगमात् । अनियतोभयांशावलम्बी हि विमर्शः संशयः । स च विषयिणा मेव भवति । विषयविषयिणेोरेव संदिह्यमानत्वात् । अत एव च। प्रकृताप्रकृतगतत्वेनेति