कृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः। स च त्रिविधः। शुद्धो
निश्चयगर्भो निश्चयान्तश्च । शुद्धो यस्य संशय एव पर्यवसानम् । यथा
“किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी
लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधे ।
उद्वाढोत्कलिकावतां स्वसमयोपन्यासविस्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ।
निश्चयगर्भों यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा
‘अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा
त्समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥
निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् । यथा
‘इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥
क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा
‘रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।।'
यथासंभवं योज्यम् । प्रतिभूत्थापित इति न पुनः स्वरसोत्थापितः । स्थाणुर्वा पुरुषो वे त्येवमादिरूप इत्यर्थः । एतदेव भेदत्रयं विवृण्वन्नुदाहरति-शुद्ध इत्यादि । अत्र प्रकृ तायास्तन्व्याः संदेहप्रतीतिविषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः । विषयविषयि णेोर्यथा-‘किं पङ्कजं किमु सुधाकरबिम्बमेतत्कि वा मुखं क्लमहरं मदिरेक्षणायाः । यदृ श्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ष्यममुष्य मध्ये ॥' अत्र क्लमहरत्वादिः स मानो धर्मोऽनुगामित्वेनोपात्तः । क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति । यथा-‘किमिद मसितालिकलितं कमलं किं वा मुखं सुनीलकचम् । इति संशेते लोकस्त्वयि सुतनु सरो वतीर्णायाम् ॥’ अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वम् । अलिकचानां च बिम्ब प्रतिबिम्बभावः । एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्वं न व्याकार्यम् । सादृश्यनिमित्तत्वेनैवास्य संग्रहृसिद्धेः । विप्रतिपत्त्यादिनिमित्तान्तरवच्चारुत्वाभा.
१. ‘यत्र' ख. २. ‘तिरः’ क . ३. ‘इह' ख. ४. ‘भिन्नविषयत्वेन' क.