पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
काव्यमाला ।


अत्रारोपविषयतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचि त्वध्यवसायांश्रयत्वेन संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्यो

सादृश्याद्वस्वन्तरप्रतीतिर्भ्रान्तिमान् ।

असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम् । भ्रान्तिश्चित्तधर्मः । स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्ति रस्य विषयः । यथा


वाच्च । भिन्नाश्रयत्वेनेति वैयाधिकरण्येन । अत्रैव पक्षान्तरमाह-केचिदित्यादि । अ नेन च संदेहस्याध्यवसायमूलत्वमपि ग्रन्थकृतैवोक्तम् । तेनाध्यवसायाश्रयोऽप्ययं स्वरूप हेतुफलानां संदिह्यमानत्वेन त्रिधा भवति । तत्र स्वरूपसंदेहो यथा-‘रञ्जिता इत्याद्येव । यथा वा-‘एतत्तर्कय कैरवक्लमहरे श्रृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तु धारत्विषि । कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि अत्र कौमुदीधवलिम्नः कर्पूरणादिनाध्यवसितत्वादध्यवसायमूल- त्वम् । हेतुसंदेहो यथा—‘देवि त्वच्चरणाम्युजस्मृतिविधौ गाढावधानस्पृशां धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः । किं ते स्युश्चिरकालभावितभवाप्रश्रक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतः ॥’ अत्राश्रुहेतोरानन्दस्य संसारवियोगो मुक्ति सांमुख्यं चेति हेतुद्वयमध्यवसितम् । फलसंदेहो यथा-‘नृत्तान्ते पारिजातं किमु विघट यितुं प्रष्टुमाकाशगङ्गां किंस्विद्वा चन्द्रसूर्यौ किमु विदलयितुं श्वेतरक्ताब्जबुद्धया । लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोद्धुं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तः ॥' अत्र करिणो निष्पादनस्य विघटनादिफलमध्यवसितम् । अत्रैवादिशब्दवन्नुश ब्दस्य संभावनाद्योतकत्वात्पक्षान्तरमपि दर्शयितुमाह--अन्य इत्यादि । अतश्च रञ्जिता इवेत्यर्थः । पूर्वत्रार्थे तु नुशब्दो वितर्कमात्र एव व्याख्येयः । सादृश्यादित्यादि । अ सम्यग्ज्ञानं त्वसाधम्र्यादिति न पुनरारोपगर्भत्वसाजात्यालक्षितमिति भावः । आरोपो हि। विषयविषयिणोर्युगपदेकप्रमातृविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति । शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात् । ननु भ्रान्तिश्चित्तधर्मः स यस्यास्ति स भ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलंकारस्यैतदभिधानमित्याशङ्कयाह भ्रान्तिरित्यादि । स इति भणितिप्रकारः । अतश्चालंकारे भ्रान्तिसद्भाव उपचरित इति भाव । सादृश्यप्रयुक्तेति । न तु ‘कामशोकभयोन्मादचौरस्वप्राद्युपप्रुताः । अ


१. ‘रागादेः' ख. २. ‘श्रयणेन' क. ३. ‘तस्य’ ख.


१. ‘करणादि' क. २. ‘अत्रैव चेवादिशब्दस्य संभावना' क. ३. ‘इदं' क. ४. ‘भ्रा- न्तिमच्छब्दः’ कः