पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
अलङ्कारसर्वस्वम्


'ओष्ठ बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
कर्णालंकृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ ।
निष्पत्त्या सकृदुत्पलच्छददृशामात्तकृमानां मरौ
राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्छितम् ।।'


भूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥' इत्याद्यभिहितावान्तरनिमित्तोत्थापितेत्यर्थः । अतश्च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषय इति तात्पर्यार्थः । एवं च ‘प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥’ इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादा वनेकत्र युगपत्प्रतीतौ निमित्तमिति न भ्रान्तिमदलंकारः । स हि प्रासादादेर्वलभारूपत्वेन प्रतीतौ स्यात् । अन्यस्यान्यरूपत्वेन सम्यगभिधानात्मानिश्चयो हि भ्रान्तिमल्लक्षणम् । न च प्रासादादिर्वल्लभात्वेन प्रतीयते इति स्फुट एवायं विशेषालंकारस्य विषयः । अथ प्रासा दादावभूताया अपि वल्लभाया दर्शनाद्भान्तिरिति चेत्, नैतत् । एवं ह्यत्र भ्रान्तिमात्रं स्यान्नालंकारः । गाढानुरागात्मकनिमित्तसामर्थ्यात्स्वरसत एव प्रासादादावसत्या अपि यु वत्याः प्रतीतिसमुल्लासाः । कविप्रतिभानिर्वर्तित्वाभावात् । ‘देवमपि हर्षं पितृशोकविह्वली कृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादिमन्यमानं' इत्यादावपि न भ्रान्तिमदलंकारः । तत्र हि विषयानवगम एव नि मित्तसामर्थ्यात्स्वरसत एव विषयप्रतीतिरुल्लसेत् । शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् । इह पुनर्विषयरूपां श्रियमवगम्यापि श्री हर्षेण पितृशोकविङ्कलीकृतत्वाच्छापत्वेन भाव्यत इति विषमालंकारो ज्यायान् । ‘दातुं वा च्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजंगं च भुजोऽङ्गदं घटयितुं वामेऽपि वा मेतरः । इत्थं स्वं स्वमशिक्षितं भगवतोरर्धैं वपुः पश्यतोः साधारास्मितलाञ्छितं दिशतु नो वक्रं मनोवाञ्छितम् ॥' इत्यत्रापि संस्कार एवालंकारो न भ्रान्तिमान् । अत्र हि भगवत्या नेत्रद्वयाञ्जनदानसतताभ्यासाद्वामनेत्राञ्जनदानानन्तरं दक्षिणनेत्राञ्जनदानवासनानु रोधो जायत इति संस्कारस्यैव वाक्यार्थत्वम् । अथात्र संस्कारप्रबोधं विना तदभावादञ्ज नदानसंस्कारहेतुका भगवदर्धस्य स्वार्धत्वेनाभिमानरूपा भगवत्या भ्रान्तिरेवेति चेत्, नै तत् । प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावगमादञ्जनदानसंस्कारो न प्ररोहमुपागत इति कारणस्यैव स्खलङ्गतित्वात्तत्कार्यस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतोऽवका शः । प्ररूढ एव हि संस्कारो भ्रमः । स्वात्ममात्रावस्थितस्तु संस्कारालंकारः । अत एव


१. ‘व्युत्पत्या' क.


१. ‘भगवतोः' ख. २. ‘नेत्राञ्जन'क . ३. ‘संस्कारप्ररोहमुपगतः' क. ४. ‘संस्कारः'क .