गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालंकारस्य विषयः । यथा
‘दामोदरकराधातचूर्णिताशेषवक्षसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।।'
सादृश्यहेतुकापि भ्रान्तिर्विच्छित्यर्थ कविप्रतिभोत्थापितैव गृह्यते ।
यथोदाहृतं न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्यात्पु
रुषो वा स्यादिति संशयेऽपि बोद्धव्यम् ।
एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ।
दातुं वाञ्छतीत्युक्तम् । एवं चात्र नेत्रद्वयाञ्जनदानसंतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमित्तकोऽपि भ्रमः परमः । परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्भन्धस्याप्यभावात्। अत एवाशिक्षितं स्मितलाञ्छितं चेत्युक्तम् । अवान्तर एवानयोर्विशेषोऽलंकारभाष्य ए वोक्त इति तत एवानुसर्तव्य इति । एवं च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषयो न नि मित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यम् । एवं सादृश्यनिमित्तकत्वादस्य सा धारणधर्मस्यापि त्रयी गतिः। तत्रानुगामिता यथा-नीलोत्पलमितेिभ्रान्त्याविकासितविलो चनम्। अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतः॥'अत्र विकासीत्यनुगामित्वेन निर्देिष्टो धर्मः । शुद्धसामान्यरूपत्वं तु यथा-‘अयमहिमरुचिर्भजन्प्रतीचीं कुपितवलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरैरुदीक्ष्यते द्राङ्नचरुधिरारुणमांसपिण्डलोभात् ॥' अत्र ताम्रत्वारुणत्वयोः शु द्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावो यथा-‘पुसिआ कण्णाहरणेन्दणीलाकरणाहआ ससिमऊहा । माणिणिवअणम्मि सकजलंसुसङ्काए दइएण ॥’ अत्र सकजलत्वेन्द्रनीलकि रणाहतत्वयोर्बिम्बप्रतिबिम्बभावः । सादृश्यनिमित्तत्वं चास्य द्रढयितुं प्रत्युदाहरति-गाढे त्यादिना । सादृश्यनिमित्तकत्वेऽपि कविप्रतिभोत्थापितैव भ्रान्तिरस्यैव विषयो न पुन र्वास्तवीत्याह-सादृश्येत्यादि । उदाहृतमिति । ओष्ठे बिम्वफलाशयेत्यादि । एत देव संदेहेऽपि योजयति--एवमित्यादि । संशय इति । अर्थादारोपगर्भ एव । त त्रैव त्यस्य सादृश्यं निमित्तम् । अध्यवसायमूले हि संदेहे सादृश्यात्संबन्धान्तराद्वा विषय विषयिणोः संदिह्यमानत्वं स्यात् । यथोदाहृतं प्राक् । एवमारोपगर्भत्व एव सादृश्यं विना नायमलंकार इत्यवगन्तव्यम् । तस्मादविशेषेणैव साधर्म्यं विहायापि निमित्तान्तरमवलम्ब्य नास्यालंकारत्वं वाच्यम् । सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालंकारत्वं न पुनः स्वार सिकस्येति । एकस्यापीति । अनेकधा ग्रहणमिति न पुनरनेकधा कल्पनम् । ग्रहणं हि स्वारसिक्यामुत्पादितायां च प्रतिपत्तौ संभवति न तु स्वारसिक्यामेव । यदाहुः-‘अत: शब्दानुसंधानवन्ध्यं तदनुबन्धि वा । जात्यादिविषयग्राहि सर्वं प्रत्यक्षमिष्यते ।।' इति ।
१, ‘चक्षषा' ख. २. ‘प्रतिभैव' ख.
१. ‘प्रोञ्छिताः कर्णाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः । मानिनीवदने सकजला श्रुशङ्कया दयितेन ॥' इति च्छाया. २. ‘निमित्तकत्वमेव चास्य' ख. ३. ‘गर्भ एव सादृश्येऽपि नायमेवालंकारः ’ क. ४. ‘अशेषेणैव' क.