पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
अलङ्कारसर्वस्वम्



यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योलेखनादुल्लेखः । न चेदं नि र्निमित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते । तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रेयोजिकाः । तदुक्तम्

‘यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते ।' इति ॥

यथा-यस्तपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः संगीत शालेति लासकैः’ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एव श्रीकण्ठाख्यो जनपदस्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते । नन्वे तन्मध्ये ‘वज्रपञ्जरमिति शरणागतैरसुरविवरमिति वातिकैः’ इत्यादौ रूप कालंकारयोग इतेि कथमयमुल्लेखालंकारविषयः । सत्यम् । अस्ति तावत् ‘तपोवनं' इत्यादौ रूपकविविक्तोऽस्य विषयः । यदत्र वस्तुतस्तद्रूपतायाः


कल्पनं पुनरुक्ताद्यं प्रतिपत्येकगामीति स्वारसिक्यां प्रतिपत्तौ न संभवतीत्युभयत्रापि व्या पकत्वाद्यथासूत्रितमेव युक्तम् । रूपबाहुल्येति । अत एवामुखे वस्त्वन्तरप्रतीतिः रस्येव । अन्यथा ह्येकस्यानेकधाग्रहणस्यैव न स्यात् । अत एव चास्य भ्रान्तिमदनंन्तरमेव लक्षणम् । एकस्य च न स्वातन्त्रयेणानेकधाप्रहणमपि तु तत्प्रयोजनवशादित्याह--न चे दमित्यादि । एतदिति । अनेकधा ग्रहणमेकस्यैव नानाविधधर्मयोगिनः स्वातन्त्र्येण प्रतीतिगोचरीभावात्कथमेकैकधर्मविषयमनेकधाग्रहणं युक्तमित्याशङ्कयाह--तत्रेत्यादि । तत्रेत्यनेकधाग्रहणे । स्वातन्त्र्येण विकल्पनं रुचिः । अर्थक्रियाभिलाषपरत्वर्मर्थित्वम् । -वृ- द्धव्यवहारशरणता व्युत्पत्तिः । उक्तमिति श्रीप्रेत्यभिज्ञायाम् । तत्तदुणयोगादिति विवि क्तत्वादिनानाविधधर्मसंबन्धात् । मुनीनां तपोवनविषयमर्थित्वम् वेश्यानां च कामायतन विषयमर्थित्वम् । एवं लासकानां तु संगीतशालाविषया व्युत्पत्तिरर्थित्वं च । प्रायश इत्य नेन रुचिरत्र नास्तीति सूचितम् । ननु योऽयं श्रीकण्ठाख्यजनपदवर्णनग्रन्थखण्ड उदाह रणत्वेनानीतस्तत्रालंकारान्तरसंबन्धोऽप्यस्तीति कथमेतद्विषय एवेत्याह--नन्वित्या दिना । एतदेवाभ्युपगम्य प्रतिविधत्त-सत्यमित्यादिना । तावच्छब्दो रूपकाभा वविप्रतिपत्तिद्योतनार्थम् । तदूपताया इति तपोवनादिरूपतायाः । अत्रापि यदन्यैरवयवा वयविभावसंबन्धात्सारो पाया लक्षणायाः सत्त्वाद्रूपकालंकारमाशङ्क्य विविक्तस्य चिन्त्यत्व


१. ‘योगत्वात्’ क. २. ‘प्रजीविकाः' क.


१. ‘आखण्ख्येन' क. २. काश्मीरिकश्रीमदुत्पलाचार्यप्रणीतायामीश्वरप्रत्यभिज्ञायाम् ३. अन्यत्रापि ख. ४. वैचित्र्य' क.