पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/५

एतत् पृष्ठम् परिष्कृतम् अस्ति
अलङ्कारसर्वस्वम्

इह हि तावद्भामहोद्भटप्रभृतयश्चिरंतनालंकारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालंकारपक्षनिक्षिप्तं मन्यन्ते | तथाहि - पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्तयाक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम्' इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः |

धेयाः | तेषामत्र साक्षादेवाभिधानात् |तदभिधायकं चेदमलंकारसर्वस्वाख्यं प्रकरणमित्यभिधानाभिधेययोर्नियमगर्भिकारेणार्थाक्षिप्तो वाच्यवाचकभावलक्षणः संबन्धः | नह्येवंविघमेत​दभिधायकं प्रकरणान्तरमस्ति | तस्यान्विष्यमाणस्याप्युपलम्भ​योग्यस्यानुपलम्भात् | अत एवात्रान्यालंकारग्रन्थवैलक्षण्योद्धोषणाय 'तात्पर्यमुच्यते' इत्याद्युक्तम् | अभिधेयाश्चात्रालंकाराः काव्यालंकारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पारम्पर्येण 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये | सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ 'इत्याद्युक्तनीत्या तदविनाभावस्वभावत्वाद​र्थाक्षिप्तसर्वपुरुषार्थसिद्धिरूपा चतुर्वर्गावाप्तिः प्रयोजनम् | तयोश्च साध्यसाधनभावलक्षणः संबन्धः | इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिबन्धनत्व​म् | ननु यदीहालंकारा अभिधेयास्तर्हि तदलंकार्योऽप्यभिधेयः | 'अलंकारा अलंकार्यापेक्षाः' इति नीत्या स एवैषां को नाम यदुपस्कारकत्वेनैतत्स्वरूपमभिधीयत इत्याशङ्क्य तदवतरणिकामेव वक्तुमुपक्रमते -- इहेत्यादिना | प्रभृतिना दण्ढ्यादयः । तावच्छ​ब्दो विप्रतिपत्यभावद्योतकः । चिरंतनेत्यादि । ध्वनिकारमतमेभिर्न दृष्टमिति भावः । प्रतीयमानमिति । वाच्य​व्यतिरिक्तत्वेन स्व​संवेदनसिद्धमपीत्यर्थः । अर्थमिति । विश्रान्तिस्थानतया परमोपादेयतालक्षणम् । वाच्योपस्कारकतयेति । वाच्योपस्काक​त्वं ह्यलंकाराणामात्मभूतम् । अलंकारपक्षनिक्षिप्तमिति । समग्रालंकारान्तर्भूतं न पुनस्तद्वचतिरिक्तमित्यर्थः । मन्यन्त इति । तथात्वेन ते मन्यन्ते न पुनस्तथा संभवतीत्यर्थः । नह्यभिमननमात्रेणैव भावानामन्यथाभावो भवतीति भावः । एतदेव दर्शयति --तथाहीत्यादिना । तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः । वस्तुमात्रं न पुनरलंकारा रसश्च । स्वसिद्धय इति । 'कुन्ताः प्रविशन्ति' इत्यादौ कुन्तैरात्मानः प्रवेशसिद्ध्यर्थे स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तैर्विना तेषां प्रवेशासिद्धेः । 'गङ्गायां घोषः' इत्यादौ तु गङ्गाशब्दः परत्र तटे घोषाधिकारणतासिद्धये स्वात्मानमर्पय​ति । स्वयं तस्य घोषाधिकरणत्वासम्भवात् । यथायोगमिति । क्व​चिद्धि वाच्योऽर्थः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति । क्व​चिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति । तेन यत्र यादृक्तत्र​ तादृगेव योज्यमित्यर्थः । तत्र पर्यायोक्तं यथा --'अधाक्षीत्रो लङ्कामयमयमुदन्व-


१. 'युक्त्या' क. २. 'ननु च' ख. ३. 'तदवतारणिकां' क. ४. 'वाच्यसंस्कार- कत्वेन' ख.