पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
अलङ्कारसर्वस्वम्


एवम् ‘पृथुरुरसि अर्जुनो यशसि’ इत्यादाववसेयम् । इयांस्तु विशेषः पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वोल्ले खने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते । सत्यम् । अनेकधात्वनिमित्तं तु विच्छित्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात् । न तु सर्वथा तदभाव । अतश्चालंकारान्तरम् । येदेवं विधे विषये श्लेषाभावेऽपि विच्छित्तिसंद्भावः । तस्मादेवमादावुल्लेख एव श्रेयान् । एवमलंकारान्तरविच्छित्याश्रयेणाप्ययमलंकारो निदर्शनीयः ।


द्युल्लेखने वृद्धाप्रभृतीनां यथाक्रमं व्युत्पत्त्यर्थित्वरुचयः । एतदेवान्यत्रापि योजयति--एव मित्यादि । विशेष इति पूर्वस्मात् । विषयभेदेनेति वचनादिभिन्नत्वेन । अनेकधात्वोल्लेखे गुर्वादिरूपतया श्लेष इति गुर्वादीनामुभयार्थवाचित्वात् । तत्प्रतिभोत्पत्तिहेतुरिति । श्लेषमन्तरेणात्रेोल्लेखानिष्पत्तेः । तदभाव इत्युल्लेखाभावः । अतश्चेति । श्लेषाभावेऽप्येतद्वि च्छित्तिसंभवात् । एवंविध इति विषयभेदरूपे । तत्तु यथा-‘सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतंस्यन्दिनि । सेर्ष्या जडुसुतावलोक नाविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥’ अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनम् । तदयं द्विप्रकारोऽपि रूपकाद्याश्रयवदन्यालंका राश्रयोऽपि संभवतीत्याह-एवमलंकारान्तरेत्यादि । तत्राद्यः प्रकारः संदेहाश्रयो यथा-‘किं भानुः किमु चित्रभानुरिति यं निश्चिन्वते वैरिणः किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः । किं पुष्पाकर एष पुष्यविशिखः किं वेति रामार्जनः किं रामः किमु जामदग्न्य इति वा यं धन्विनो मन्वते ॥’ अत्रैकस्यैव संदिह्यमानत्वेनानेकधात्वोल्लेखनम् । अतिशयोक्तयाश्रयश्चायमेव यथा -‘वज्रं सौराज्यसाक्षी परिकलितमहाः शक्तिमार्द्रापराधो दण्डं खङ्गं रिपुस्रीप्रसभहरणवित्कूपवाप्यादिदृश्वा । पाशं पाणावपश्यन्ध्वजमपि बलवित्कोष वेदी गदां च स्वाच्छन्द्यज्ञत्रिशूलं लिखति करतले देव चित्राकृतेस्ते ॥' अत्र त्वमेवेन्द्र इत्या द्यतिशयोक्तया लोकपालाभेदो राज्ञ उपलभ्यते इत्येकस्यानेकधात्वोल्लेखनम् । विषयभेदेन च रूपकाश्रयो यथा-‘मूर्ध्न्यद्रेर्धातुरागस्तरुषु किसलयं विद्वमौघः समुद्रे दिङ्जातङ्गोत्तमाङ्गेष्व भिनवनिहितः सान्द्रसिन्दूररेणुः । सीन्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्रासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानः ।’ अत्रैकस्यैव विषयभेदेन रूपका श्रयं नानात्वम् । ‘कारकान्तर' इत्यपपाठः । प्रकृतकारकविच्छित्याश्रयस्यैवानुक्तत्वात् । अयं स्वरूपहेतुफलोल्लेखनरूपत्वात्रिधा । तत्र स्वरूपोल्लेखः समनन्तरमेवोदाहृतः । हेतूल्ले खस्तु यथा-‘सर्गहेतोः सदा धर्मः स्थितिहेतोरपि प्रजाः । द्विषः संहारहेतोश्च विदुस्त्वां


१. ‘श्लेषोऽत्र******स्यात्' क .२. ‘यद्येवं' क. ३. ‘असद्भावः' कः


१. ‘जनाः' क-ख.