पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
काव्यमाला ।


विषयस्यापह्नवेऽपह्नुति

वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तापह्नवैधर्म्येणेदमुच्यते । आरोपप्रस्ता वादारोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्योऽलंकारः । तस्य च त्रयी बन्धच्छाया-अपह्नवपूर्वक आरोपः । आरोपपूर्वकोऽपह्नवः । छलादिश ब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृती यभेदे त्वेकवाक्यम् । आद्यो यथा - *


जातमात्मनः ॥' अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनन् । फलोल्लेखस्तु यथा-- ‘धर्मायैवं विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः कोषै कदेशस्य ये । कामायैव कृतार्थतामुपगता नार्यश्च निश्चिन्वते मोक्षायैव च वेदं जन्म भवतः कश्चिद्विपश्चिज्जनः ॥’ अत्रैकसैव जन्मनः फलानामनेकधात्वोल्लेखनम् । विषयस्ये त्यादि । वस्त्वन्तरेति । भ्रान्तिमतोऽनुवर्तत इति शेषः । अत एव केचन मण्डूकफु तिन्यायेनानुवर्तनस्यानुचितत्वाद्भ्रान्तिमदनन्तरमपह्नुतिर्ग्रन्थकृता लक्षिता उल्लेखश्चातिश योक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः । न चैतत् । यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः । यद्वक्ष्यति–‘एवमध्यवसायाश्रयेणालंकारद्वयमुक्रा गम्यमानौप म्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्येऽपि पदा र्थगतमलंकारद्वयं क्रमेणोच्यते’ इति । तस्माद्वस्त्वन्तरप्रतीतेर्भावाद्भ्रान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम् । अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रतीतेर्निरन्तरमेवानु- . वर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः । यद्येवं तर्ह्युल्ले खापहुत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्कयाह-प्रक्रान्तेत्यादि । इदमित्यपहुतिलक्षणम् । तदेव व्याचष्टे-आरोपेत्यादिना । विषयस्यापह्ववे विषयिणेोऽन्यस्य विधिरित्यर्थः । तेन ‘न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं तुं ससंततिम् ॥’ इत्यत्र विषस्य निषेधपूर्वे ब्रह्मस्व विषय आरोप्यमाणत्वादृढारोपं रूपकमेव नापह्वुतिः । अपह्वुतेर्हि निषेध्यविषय भित्तितयैवान्यस्य विषयिणो विधानं लक्षणम् । अत्र तु निषेध्यसैव विषस्य ब्रह्मस्ववि षये आरोप्यमाणत्वाद्विधानम् । अथात्र मुख्यस्य विषस्य निषेधे आरोप्यमाणत्वात् ब्रह्मस्व विषस्य गौणस्य विधानामिति चेत्, तत्र ब्रह्मस्वविषस्य गौणस्य विधानमिति भणितेः को ऽर्थः । किं ब्रह्मस्वविषस्य विधानं किं वा द्वन्द्वपदार्थवद्ब्रह्मस्वस्य च विषस्य च ब्रह्मस्वे वा विषस्येति । तत्र नाद्यः पक्षः । विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसं


१.विघयापह्नवे' क २ . प्रक्रान्तानपडव क.


१. ‘नयविदः' ख. २. ‘देव' ख. ३. ‘अप्रतीतेः’ ख. ४. ‘तत्वं यदि' ख. ५. ‘पुत्रपैौत्रकम्’ ख. ६. ‘ब्रह्मस्वं विषं' ख.