‘यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते
तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी
कटाक्षोल्कापातव्रणकेिणकलङ्काङ्किततनुम् ।।'
अत्रैन्दवस्य शशस्यापह्नवे उपक्षिप्ते शशकप्रतिवस्तुकिणवत इन्दोरारोपो
नान्वयघटनां पुष्यतीति न निरवद्यम् । ततु यथा
‘पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं
नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत् ।
मारस्योच्छूितमातपत्रमधुना पाण्डु प्रदोषश्रिया
मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥
द्वितीयो यथा
‘विलसदमरनारीनेत्रनीलाब्जखण्डा
न्यधिवसति सदा यः संयमाधःकृतानि ।
न तु रुचिरकलापे वर्तते यो मयूरे
वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ।।'
तृतीयो यथा
उद्धान्तोज्झितगेहगूर्जरवधूकम्पाकुलोचैःकुच
प्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना ।
भवात् । तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्तिः स्यात् । नापि गौणता । स्वार्थं एव प्रवृत्तेः । अन्यदन्यत्र वर्तमानं गौणमित्युच्यते । न चात्र ब्रह्मस्वविषमन्यत्र कुत्रचिद्वर्तते येनास्य गौणता स्यात्, । एवं द्वितीयेऽपि पक्षे न गौणत्वं युक्तम् । नाप्यत्रोभयविधिः । ब्रह्मस्वविषये विषस्यैव विधीयमानत्वात् । तृतीयेऽपि न गौणस्य सतो विषस्य विधानम् । ब्रह्मस्ववृत्यभावान्मुख्यार्थबाधाद्गुणेषु वर्तनात् विहितस्य तस्य गौणत्वात् । एवं ब्रह्मस्वस्य दार्ढ्येन विषसाम्यप्रतीतिप्रतिपिपादयिषया तत्र निषेधपूर्वं विषमारोपितमिति दृढारोपमेव रूपकं युक्तम् । न ब्रह्मस्वं विषमिदमिति पुनरुच्यमानेऽपह्नुतिः स्यात् । तस्मान्मु ख्यस्येवेत्यपास्य विषयस्यापह्नवेऽन्यविधिरपह्नुतिरित्येवं लक्षणं कार्यम् । तस्येत्यपह्रुत्या ख्यस्यालंकारस्य । वाक्यभेद इत्येकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्व रूपनिर्देशः कृतः । न निरवद्यमिति । यथोक्तक्रमनिर्वाहाभावात् । अतएवोदाहरणा न्तरमाह-पूर्णेन्दोरित्यादि । मन्येशब्दस्य प्रयोग इति संभावनाद्योतकत्वात् ।