स्यात् । इह पुनः शर्वपुष्टमदननिपतनानुमापकत्वेन रोमावल्यपहवे धूमशिखाया एव प्रा
धान्यं विवक्षितमिति न परिणामो नापि रूपकम् । व्याजार्थपर्यवसायिवपुःशब्दबलादारो
पविषयापह्रुतावारोप्यमाणस्य प्रतीतेः । आरोपविषयानपह्नवे हि रूपकमिति पूर्वमेवोक्तम् ।
अथात्रापि भिन्नयोः सामानाधिकरण्यायोगादेकतरस्य निषेधप्राप्तावारोप्यमाणस्य च नि
षेधानुपपत्तेरारोपविषयस्यैव पर्यवसाने निषेधः प्रतीयत इति चेत्, नैतत् । अत्र हि
मुखादौ चन्द्रादेर्वृत्यभावो बाधितः संश्चन्द्रार्थः स्वात्मसहचारिणो गुणांल्लक्षयति न तु मुखा
देर्विषयस्य निषेधः प्रतीयते । मुखशब्दादेः स्वार्थ एव प्रवृत्ते । पर्यवसाने ह्यत्र भुखादि
चन्द्रादिगुणविशिष्ट प्रतीयते । न तु मुखादेर्बाधः । न मुखमित्येवमादेः प्रेत्यवमर्शाभावात् ।
नापि निदर्शना । संबन्धविघटनाद्यभावात् । आदिशब्दाच्च तृतीययापि क्वचिदसत्यत्वं
प्रतिपाद्यते । यथा -‘मद्वाङ्गोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके मा कार्षींरति
साहसं प्रियतमे दासस्तव प्राणिति । नीता वृद्धिममी त्वयैव कुसुमैर्बाष्पायमाणा द्रुमा गृहन्ति
क्षुरिकामिवालिपटलव्याजेन पाशच्छिदे ॥’ अत्र कुसुमैरिति तृतीययापह्नवनिबन्धनम् ।
आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वा । सादृश्येऽप्यस्याः साधारणधर्मस्य
त्रयीगतिः । तत्रानुगामिता यथा -‘तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः
किल कलङ्कमिति ब्रूवते । तदनृतमेव निर्दयविधुंतुददन्तपदव्रणविवरोपदर्शितमिदं हि वि
भाति नभः ॥' अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तम् । शुद्धसामान्यरूपत्वं यथा
‘अयं सुरेन्द्रोपवनाद्धरित्रीं स पारिजातो हरिणोपनीतः । न प्रापितोऽयं सुमन:प्रवर्ह
कश्मीरदेशोद्भवताभिमानम् ॥’ अत्रोपनयनप्रापणयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रति
बिम्बभावो यथा-‘न ज्योत्स्नाभरणं नभो न मिलितच्छायापथो वाम्बुदो नो ताराप्रकरो
न चेदममृतज्योतिष्मतो मण्डलम् । क्षीरक्षोभमयोऽप्यपांनिधिरसौ नेत्राहिना मन्दरः
पृक्तोऽयं मणिपूग एष कलशश्चायं सुधानिर्झरः ॥’ अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभम
यत्वं प्रतिबिम्बत्वेन निर्दिष्टम् । संबन्धान्तराद्यथा-‘हेलोदञ्चन्मलयपवनाडम्बरेणाकुलासु
प्रेङ्खाकेलिं कमपि भजतां चूतशाखालतासु । वाचालत्वं नयदुदभवत्कानने कोकिलानां
मौनित्वं तत्पथिकहरिणीलोचनानां ववल्ग ॥’ अत्र कोकिलवाचालत्वस्य कारणस्य नि
षेधे पथिकस्रीमौनित्वस्य कार्यस्य विधिः । एवमारोपगर्भेयं सप्रपञ्चं दर्शिता अध्य
वसायगर्भा पुनर्दर्श्यते यथा-‘न लक्ष्मीसौन्दर्यान्न च सुरशरण्यीकृतसुरासुधादि
ज्येष्ठत्वान्न मुकुटमणित्वाद्भगवत । येदेवं बालेन्दोदिशि- विदिशि : वन्यत्वमुदितं
स्फुटत्वे तत्कान्तामुखकमलदास्यादुपनतम् ’ अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे
निगीर्य हेत्वन्तरमध्यवसितम् । यथा वा -‘कलाभिस्तृप्त्यर्थे सुरपितृनृणां पञ्चदशभिः :
सुधासूतिर्देवः प्रतिदिनमुदेतीत्यसदिदम् । परिभ्राम्वत्येष प्रतिफलनमासाद्य भवतीकपो
लान्तर्युक्तया त्वदधरसुधासंग्रहपरः ॥’ अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य
१. ‘सामानाधिकरणयोः' ख. २. ‘प्रतीतेः' ख. ३. ‘मुखादिभिः' ख. ४. ‘प्रत्ययस्या भावार्थे नापि निदर्शना' क. ५. ‘प्रवाहः’ क. ६. ‘सारमू' क. ७. ‘तदेवं' ख.