पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
अलङ्कारसर्वस्वम्



तत्र ।

अध्यवसाये व्यापारमाधान्ये. उत्प्रेक्षा ।

पगन्तव्यः । एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वम् । तस्य हि विषयनिगरणे विषयिनिश्चयश्च स्वरूपम् । न चात्रैकमपि संभवति । वि. षयोपादानान्निश्चयाभावाश्चेति । अत्रोच्यते—इह द्विधास्त्यध्यवसायः-स्वारसिक उ त्पादितश्च । तत्र स्वारसिके विषयानवगम एव निमित्तसामर्थ्यात्स्वरसत एव विषयप्रती तेरुल्लासात् । नह्यवगतशुक्तिकास्वरूपस्य प्रमातुः कदाचिदपि रजतमिदमिति . प्र त्ययोत्पादः स्यात् । इतरत्र तु विषयमवगम्यापि तदन्तःकारेण प्रतिपत्तौ स्वात्म परतन्त्रविकल्पनाद्विषये प्रतिपत्तिमुत्पादयेत् । जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरतया विषयिणमध्यवस्येत् । तत्राद्यो भ्रान्तिमदादिविषयः । तत्र हेि प्रमात्र न्तरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वक्रानूद्यते न तूत्पाद्यते । यदाहुः-‘प्रमात्रन्त रधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमान्’ इति । स्वारसिकत्वं पुनरत्र कर्विप्रतिभा निर्वर्तितमेवेष्टम् । अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तम् । इतरस्तूत्प्रेक्षाविषयः । स च द्विविधः-सिद्धः साध्यश्च । सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसित प्राधान्यम् । साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्य वसायक्रियाया एव प्राधान्यम् । अत एवाह-व्यापारप्राधान्य इति । अत एव चात्र क्वचिद्विषयानुपादानम् । वाच्योपयोग्याध्यवसायस्य साध्यमानत्वेनोपक्रान्तत्वात् । क्वचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वम् । इवाद्युपादानान्निगीर्यमाणतायाः प्राधान्यात्संभावना प्रत्ययस्यैवोद्रेकात् । अत एव चात्र विषयस्य निगीर्यमाणत्वादारोपगर्भत्वं न वाच्यम् । तत्र विषयस्य विषयितया प्रतीतिः । इह पुनर्विषयस्य निगीर्यमाणत्वेन विषयिण एव प्र तीतिः । ननु विषयनिगरणमध्यवसायस्य लक्षणम् इह पुनर्विषयस्य निगीर्यमाणतेति कथम त्राध्यवसायतेति चेत्, नैतत् । ‘विषय्यन्तः कृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका’ इत्या द्युक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणम् । तच्च विषयस्य निगरणेन नि गीर्यमाणत्वेन वा भवतीति न कश्चिद्विशेषः। निगीर्यमाणमपि पूर्वोक्तनीत्या विषयस्योपात्तस्या नुपात्तस्य वा भवतीत्यपि न कश्चिद्विशेषः । एवं सिद्धेऽध्यवसायेऽध्यवसितप्राधान्यं साध्ये च स्वरूपप्राधान्यमिति सिद्धम्। एतच्च ग्रन्थकृदेव विभज्याग्रे वक्ष्यतीति तत एवावधार्यम् । यदेव चाध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वम् । संभावना ह्येकतरपक्षशिथिलीकारेण प क्षान्तरदार्ढ्येन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्यकक्षत्वम् । तस्यापि विषयशिथिली कारेण विषयेिदार्ढ्येन चोत्पत्तेः । अत एव विषयिणोऽपि शाब्देन वृत्तेन सत्यत्वम् । विषय दार्ढ्येनैव साध्यवसायस्वरूपप्रादुर्भावात् । यदुक्तं भवद्रिरेव ‘संभावनायां च संभाव्यमानस्य


१. ‘अत्र' ख. २ ‘तत्राध्यवसाये' ख.


१. ‘द्विविधस्त्वध्यव' क. २. ‘विकल्पबलात्’ ख. ३. ‘मूलत्वम्’ क. ४. ‘साध्याध्य