पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
काव्यमाला ।


दाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणकत्वात् । प्रायश्च स्वरूपो त्प्रेक्षात्र न संभवति । तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं भेदनिर्देशः । एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिदृश्यते । क्वचित्प- दार्थान्वयभेदोद्धा दृश्याभिधानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्या दभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति । क्वचिच्च च्छलादिशब्द- प्रयोगे सापह्नवोत्पेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्य मस्याः। सांप्रतं त्वियं दिआत्रेणोदाह्रियते । तत्र जात्युत्प्रेक्षा यथा-

‘स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारेर्यो मूर्ध्निं ज्वलनकपिशे भाति निहितः ।
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥'


अत्राङ्कुरशब्दस्य जातिशब्दत्वातिरुत्प्रेक्ष्यते । क्रियोत्प्रेक्षा यथा
‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते । उत्तरार्धे तु
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।

इत्यत्रोपमैव नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा

‘एषा स्थली यत्र विचन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥


वतिः । अयं प्रकार इति प्रतीयमानोत्प्रेक्षालक्षणः । प्राय इति । वाच्या यथा स्वरूपो त्प्रेक्षा लक्ष्येषु प्रचुरा तथेयं न भवतीत्यर्थः । न पुनरत्यन्तमेवास्या अभावो व्याख्येयः । क्वचिदपि लक्ष्येऽस्या दृष्टेः । यथासंभवमिति । लक्ष्ये भेदनिर्देश इति कार्यः । त स्याश्चाष्टचत्वारिंशद्भेदाः संभवन्ति । तदुक्तमलंकारानुसारिण्याम्-‘प्रतीयमानोत्प्रेक्षाभेदा अष्टचत्वारिंशत्’ इति । अर्थाश्रयापीति । अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न क्वा प्युपयुक्त तथापि लिष्टशब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः । उपमा उत्प्रेक्षायां पर्यवस्यतीति संबन्धः । आनन्त्यमिति बहुप्रकारत्वम् । सांप्रतमिति प्राप्तवसरम् । दि इस्रात्रेणेति । अनेन जात्यादिभेदानामनवकृप्तिर्ध्वनिता । तमोगतत्वेनेति । तमोग तव्यापनादिधर्मनिगरणेनेत्यर्थः । अत्र हि तमसो धर्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्म


१. ‘भवति' क. २. ‘वेलाय’ ख. ३. ‘उत्तरे त्व’ क.