पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
अलङ्कारसर्वस्वम्


अत्र दुःखं गुणः। द्रव्योत्प्रेक्षा यथा

पातालमेतन्नयनोत्सवेन विलेय शून्यं शशलाञ्छनेन ।।
इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ।


अत्र चन्द्रस्यैकत्वाद्व्यत्वम् । एतानि भावाभिमानेनोदाहरणानि । अभावाभिमानेन यथा

‘कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ।


अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं आत्यादावेप्यूह्यम् । गुणस्य निमित्तत्वं यथा —‘नवबिसलताकोटिकुटिलः' इत्यादावुदाहृतस्य कुटिलत्वस्य । क्रियाया यथा-'ईदृक्षां क्षामतां गतौ' इत्यत्र क्षामताग- मनस्य । निमित्तोपादानस्यैते उदाहरणे । अनुपादाने लिम्पतीव तमो ऽङ्गानि’ इत्याद्युदाहरणम् । हेतूत्प्रेक्षा यथा-विश्लेषदुःखादिव बद्धमौ नम्’ इत्यादौ । स्वरूपोत्प्रेक्षां यथा--


धर्मित्वमवस्थापितमित्यम् एव वक्ष्यामः । द्रव्योत्प्रेक्षेति । द्रव्यस्य स्वरूपेणोत्प्रेक्षणम् । तस्यैव हि हेतुप्रेक्षा यथा-‘जयति शिशिरतायाः कारणं सा हिमाद्रेत्रिपुरहरकिरीटादा पतन्ती द्युसिन्धुः । सततसहनिवासी क्षीरसिन्धोः प्रसूतो हिमकर इव हेतुः श्वैत्यशैत्यस्य यस्याः । ' अत्रेन्दोर्द्रव्यस्य हेतुत्वेनोत्प्रेक्षणम् । फलोत्प्रेक्षा यथा -“मध्येसलिलमादित्य संमुखं धूलिधूसराः । कुमुदिन्यस्तपस्यन्ति चन्द्रायैव दिने दिने ।’ अत्र चन्द्रस्य द्रव्य त्वम्। ऐषामेव भावाभिमानोदाहरणत्वमतिदिशति--एतानीत्यादिना । अभ्यूह्यमिति अभावाभिमानोदाहरणम् । निमित्तोपादानस्येति । कुटिलत्वस्य क्षामतागमनस्य च साक्षान्निर्देशात् । अनुपादान इति । तिरोधायकत्वादे निमित्तस्य गम्यमानत्वात् । भेदान्तरेष्विति स्वरूपफलादिकेषु । ज्ञेयमिति प्रतीयमानत्वात् । तत्र स्वरूपोत्प्रेक्षा यथा - ‘मलअसमीरसमागमसंतोसपणिच्चराभिसव्वत्तो । विब्याइइ चलकिसलअकराहि साहादि महुलच्छी । अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रियास्वरू पेणोनेक्षिता । तदौन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तम् । यत्पुनरुद्देशे प्रतीयमान त्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः स्वरूपोत्प्रेक्षणस्यासंभवो नि मित्तम् । ग्रन्थकुत्तो हि प्रतीयमानोत्प्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः । हेतुफलोत्प्रे-


१. 'मन्तर्नग्नौ' ख. २. ‘अभ्यूयम्’ क. ३. ‘उक्ते’ ख.


१. 'अत्र द्रव्यस्य ख. २. ‘भस्म' क.