पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
काव्यमाला ।


‘कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिश्श्वासमिवोसत्सर्ज ॥'


फलोत्प्रेक्षा यथा-

‘चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ।


एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा-

‘महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णअम्मा अङ्गं तणुअपि तणुएइ ॥ इति ।


अमाअन्ती इत्यत्रावर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् । एवं भे- दान्तरेष्वपि ज्ञेयम् । श्लिष्टशब्दहेतुर्यथा

‘अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः।
अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥


अत्र धर्मविषये मार्गणशब्दः श्लिष्टः । उपमोपक्रमोत्प्रेक्षा यथा-

‘कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।


क्षणयोश्च वक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुक्तम् । तेन प्रतीयमा नापि स्वरूपोत्प्रेक्षा निमित्सोपादानानुपादानाभ्यामेव भवति । तत्र निमित्तानुपादाने उदा- हृता । उपादाने तु यथा—‘प्रसारि सर्वतो विश्व तिरो दधदिदं तमः । सर्वाङ्गं लिम्पति जनं सान्त्रैरमृतकूर्चकैः । अत्र प्रसारित्वादि निगीर्य तमोगतत्वेन लेपनक्रिया स्वरूपेणो- त्प्रेक्षिता तिरोधायकत्वादि च निमित्तम् । ‘तुरीयो त्वेष मेध्योऽग्निरान्नायः पञ्चमोऽपि वा । अपि वा जङ्गमं तीर्थं धर्मो वा मूर्तिसंचरः ।' इत्यादौ तु वामनमते विशेषोक्तिः । ‘भूत लकार्तिकेयः इतिवत् । ग्रन्थकृन्मते तु दृढारोपं रूपकम् । यद्वक्ष्यति-या त्वेकहानि कल्पनायां साम्यदार्ढ्यं विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मद्दर्शने रूपकभेद एवेति। अत एवात्र तत्सामग्र्यभावादुत्प्रेक्षोदाहरणत्वं न वाच्यम् । एवम् ‘अपरः पाकशासनो राजा ’ इत्यत्रापि दृढारोपमेव रूपकम् । एतच्चालंकारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितम् । फलोत्प्रेक्षा यथा--गिजन्ते मङ्गलगाहिआहि वरगोत्तदत्तकण्णाए । सोतुं विणिग्गओ उअह होन्तबहुआहि रोमञ्चो । ' अत्र श्रोतुमिवेति फलमुत्प्रेक्षितम् । श्लिष्ट इत्यर्थिशरवाचकत्वात्। .