पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
काव्यमाला ।


क्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् । तस्या- नुपादाने कस्य तत्फलत्वेनोक्तत्वं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपा- दानमेव न प्रकारान्तरम् । यथा-

रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥

अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । त- दसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारस्त्वा दिह न प्रपञ्चितः । तस्याश्चैवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्रयभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथोदाहृतं प्राक् । ‘अहं त्विन्दुं मन्ये त्वदरिविरह’ इत्यादि ।


स्येति । अवश्याभिधेयस्येत्यर्थः । एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते । अतश्च स धर्मी वाच्य एव भवति । यथोक्तोपपत्तेः । निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा । तत्तु यथा--एषा स्थलीत्यादि । अत्र पुरस्य धर्मिणौ बद्धमौनत्वै निश्चलत्वादि धर्महेतुकत्वं निगीर्य दुःखहेतु- कत्वमुत्प्रेक्षितम् । निगीर्यमाणश्चानुपात्तो धर्मः । उपात्तस्तु यथा-‘मृणालसूत्रं निजवल्ल भायाः समुत्सुकश्चाटुषु चकवाकः । अन्योन्यविश्लेषणमन्त्रसूत्रभ्रान्त्येव चक्षुस्थितमाचकर्ष ।’ अत्र चक्रवाकस्याकर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्यं भ्रान्तिहेतुत्वमध्यवसितम् । निगीर्यमा- णश्च धर्म उपात्तः। अनुपात्तस्तु यथा-‘कुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् । नलिन्या भर्तृविरहान्म्लानिमानमिवेक्षितुम् ’ अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्यं दर्शनं फलत्वेनोत्प्रेक्षितम् । निगीर्यमाणश्च धर्मोऽनुपात्तः । तदेवं हेतुस्वरूपयोर्यथासंभवं स्व- रूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयति-फलोत्प्रेक्षायामित्यादिना । तस्येति फलस्य । एतच्च हेतूत्प्रेक्षाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान्न पुनरायास्यते । तदेवं ग्रन्थकृदात्मनः श्लाघां कटाक्षयन्नेतदुपसंहरति--तदसावित्यादि । अस्याश्च वाच- कव्यवस्थां दर्शयति--तस्यार्थस्यादि। उत्प्रेक्षासामर्थ्यभाव इति संभावनाप्रत्ययात्मक- त्वाभावात् । प्रागित्यपह्रुतौ । एवमिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति । यथा-- ‘वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्ला- वण्य उत्पाद्य इवास यत्नः ॥’ इयं च भेदेऽभेदे इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते । तत्र भेदेऽभेदो यथा-पृथ्वीराजविजये–‘गृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः । अनर्म देव यत्सैन्यैर्निरमीयत नर्मदा ॥’ अत्र नर्मदाया अभेदेऽपि भेदः । संबन्धेऽसंबन्धो यथा-- ‘अद्वैतं तद्भवतु भवतां संविदद्वैतपुष्टयै क्ष्याभृत्पुत्रीपरिवृढ रमाकान्तदेहद्वयस्य । यत्रा-


१. ‘तत्क्षणात्' ख. २. मानम्लानिं ख.