पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
अलङ्कारसर्वस्वम्


एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णय सिद्धत्वेऽतिशयोक्तिं ल- क्षयति अध्यवसितप्राधान्ये त्वतिशयोक्तिः ।
अध्यवसाने त्रयं संभवति--स्वरूपं विषयो विषयी च । विषयस्य हि । विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे स्वरू- पप्राधान्यम् । सिद्धत्वे त्वध्यवसितत्वप्राधान्यम् । विषयप्राधान्यमध्यव- साये नैव संभवति । अध्यवसितप्राधान्यैवातिशयोक्तिः । अस्याश्च पञ्च


कार्ष्ण्ये निज इव विदन्दक्षिणार्धप्रभाभिर्देहेऽन्येषामपि पुररिपुः कार्ष्ण्यमन्तः प्रमार्ष्टि । अत्र कार्ष्ण्यबन्धेऽप्यसंबन्धः । असंबन्धे संबन्धो यथा-‘क्षीरक्षालितचन्द्रेव नीलीधौ- ताम्बरेव च । टङ्कोल्लिखितसूर्यैव वसन्तश्रीरजृम्भत । अत्र क्षीरक्षालितत्वाद्यसंबन्धेऽपि संबन्धः । कार्यकारणयोस्तुल्यकालत्वे यथा-‘यशसेव सहोद्भूतः श्रियेव सह वर्धितः । तेजसेव सहोद्भूतस्त्यागेनेव सहोत्थितः ॥’ पौर्वापर्यविपर्यये यथा -‘शराः पुरस्तादिव नि- ष्पतन्ति कोदण्डमारोपयतीव पश्चात् । अन्वक्प्रहारा इव संघटन्ते प्राणान्द्विषः पूर्वमिव त्यजन्ति । कार्यकारणयोर्विपर्ययेऽपीयं दृश्यते यथा—‘सेयं संततवर्तमानभगवद्वाणार्चनै- काग्रताव्यग्रोपान्तलतांविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी । यस्याः पाण्डुरपुण्डरीकपटलव्या जेन तीरद्वये शश्वत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम् ।' अत्र नर्मदातश्चन्द्रस्योत्प तिप्रतीतेः कार्यकारणविपर्ययः । क्रमिकविपर्ययेणापीयं दृश्यते यथा--'अखर्वगर्वस्मितद- न्तुरेण विराजमानोऽधरपल्लवेन । समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यौ द्विषतां य- शांसि ॥’ अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्वनिर्देशाकमिकविपर्ययः । अत्रैव ‘पिबन्निवोच्चैः’ इति तु पाठे क्रमिकयोः समकालभावित्वम् । एतदुपसंहरन्नन्यदवता- रयति--एवमित्यादि । तामेव लक्षयितुमाह । एतदेव व्याख्यातुमध्यवसायस्य ताव- द्यथासंभवं स्वरूपं दर्शयति-अध्यवसितेत्यादि । परस्परनिष्ठत्वानुपपत्तेरध्यवसायस्य किं विषयविषयिभ्यामित्याशङ्कयाह--विषयस्य हीत्यादि । विषयविषयिभ्यामन्तरेणा- ध्यवसाय एव न भवतीत्यर्थः । एषामेव विषयविभागं दर्शयति--तत्रेत्यादिना । त- त्रेति त्रयनिर्धारणे । स्वरूपप्राधान्यमित्यध्यवसायप्राधान्यम् । अध्यवसितप्राधान्यमिति वि- षयिप्राधान्यम् । साध्यत्वं सिद्धत्वं चोत्प्रेक्षायामेव निर्णीतम् । नैव संभवतीति । अ- ध्यवसायस्वरूपानुदयात् । तदेवं विषयिणः प्राधान्याविवक्षायामलंकारो भवतीत्याह-अ- ध्यवसितेत्यादि । उक्तं चान्यत्र -‘अध्यवसायसाध्यत्वप्रतीतावियमिष्यते । तत्सिद्ध- ताप्रतीतौ तु भवेदतिशयोक्तिधीः' इति । पञ्चेति न्यूनाधिकसंख्यानिरासार्थम् । अत एव कार्यकारणपौर्वापर्यविध्वंसस्य चतुर्थभेदान्तर्भावो न वाच्यः । एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात् । अभेदाद्यसंबन्धेऽपि संबन्धोपनिबन्धनात् । अथ भवत्वेतदिति


१. ‘अध्यवसितस्य' ख. २. विरुद्धत्वं’ ख.