पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/७

एतत् पृष्ठम् परिष्कृतम् अस्ति
अलंकारसर्व​स्वम्।

रुद्रटेन तु भावालंकारो द्विधैवोक्तः । रूपकदीपकापहुतितुल्ययोगिता -

- - - - -

वेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यम् । अतश्च लक्षणायां बाधितः सन्मुख्योऽर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तम् । ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिद्ध्यर्थ परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यम् । इदं प्रतिपतव्यम् — अत्र हि लक्षणाया एव नावकाशः । तत्र हि कथमहं स्यामिति वाच्यं सत्कार्ये तदविनाभावात्परं कारणमाक्षिपतीत्याक्षपेणेवै सिद्धेस्तस्या अनुपयोग । 'गौरनुवन्ध्यः इत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावाद्वयक्तिराक्षिप्यते न तु लक्ष्यते तथैवात्रापि कार्यकारणयोर्ज्ञेयम् । एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव नायकत्वमाक्षिपतीत्यत्रापि लक्षणामूलत्वं नाशङ्कनीयम् । ग्रन्थकृता पुनरेतञ्चिरंतनमतानुवादपरतयोक्तम् । अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना । उपमेयोपमा यथा -'रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥ 'अत्र द्वयोः परस्परमुपमानोपमेयत्वं वाच्यं सत्स्वयमनुपपद्यमानमुपमान्तरविरहलक्षणे परत्र वस्त्वन्तरे स्वं समर्पयति । अनन्वयो यथा -'भवानिव भवानेव भवेद्यदि परं भव । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिः ॥' अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयसब्रह्मचार्यभावे परत्र वस्त्वन्तरे स्वं समर्पयति । आदिशब्दः प्रकारे । तेनानिष्टविध्याभासाक्षेपादेर्ग्र​हणम् । यथा -'भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथा रूढं प्रेम' प्रपन्नमिमां दशां प्रकृतितरले का नो ब्रीडा गते हतजीविते ॥’ अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेद्धुमेवोपक्रान्तस्य विधानानुपपत्तेः स्वयमविश्रान्तः स्वमर्पणेन निषेधमाक्षिपति । एवं द्विविधया भङ्गया गम्यमानं वस्तुमात्रं वाच्योपस्कारकमेवेत्युक्तम् ।

एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलंकारान्तर्भावो न सिध्यतीत्याशङ्क्याह - रुद्रटेनेत्यादि । द्विधेति । गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः। यदाह - ‘यस्य विकारः प्रभवन्नप्रति​​बद्धेन हेतुना येन। गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ । ग्रामतरुणं तरुण्या नववक्षुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नेितरां मलिना मुखच्छाया ॥ अभिधेयमभिदधानं तदेव तदसदृशगुणदोषम् । अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः । एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिः स गतो विदेशम् । कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥' इति । यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयम् । तेनाद्ये स्वसिद्धये पराक्षेपः, परत्र तु अपरार्थे स्वसमर्पणम् । यत्वत्रान्यैर्भावैर्निर्वेदादिभिरुपलक्षितो वाच्यप्रतीयमानत्वेन द्विविधो भावालंकारो व्याख्यातस्तदुत्सूत्रमेव । रुद्रटेन तथात्वेन तस्याप्रतिपादनात् । तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात् । तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारकत्वेन