प्रकाराः। भेदेऽभेदः । अभेदे भेदः । संबन्धेऽसंबन्धः। असंबन्धे संबन्धः।
कार्यकारणपौर्वापर्यविध्वंसश्च ।
तत्र भेदेऽभेदो यथा--
‘कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।'
चेत् । न । अत्र च। यद्यपि सर्वत्र भेदेऽभेदादौ वस्तुतोऽसंबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैर्लक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शतत्वाच्च विभागेन निर्देशः कृत इति भवद्भिरेवोक्तत्वात् । तत्समानन्यायत्वात्कथमस्यापि चतुर्थ- भेदान्तर्भावो न्याय्यः । अथ यदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानन्यायताद्यभावे- sपि तथोपनिबन्धे पञ्चमोऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्न- देशत्वाभावेऽपि तथोपनिबन्धे षष्ठोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यत इति चेत् । नैतत् । यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया वि- षयनिगरणेन विषयिप्राधान्यं विवक्षितम्, असंगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयो- र्भिन्नदेशत्वमित्युभयत्राप्यस्ति तावन्निर्विवादो लक्षणभेदः । कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्तृकस्य हृदयाधिष्ठानस्य कारणस्य स्मरकर्तृकस्य च कार्यस्य पूर्वापरीभावं निगीर्यं त्वद्दर्शनेनैव विषयान्तरवैमुख्येन त्वदभिलाषपरैव जातेत्यातिशयप्रयोजनप्रतिपादनार्थमन्यथा- त्वमध्यवसितमित्यतिशयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वम् । तत्र हि क्वन्ध धम्मिलमधीरदृष्टैः क्ष्मानायकश्चम्पकमालिकाभिः चित्तेषु मन्युः स्थिरतां जगाम विपक्ष- सारङ्गविलोचनानाम् ॥ इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयो- भिन्नदेशत्वम् । यत्रैव बन्धस्तत्रैव तत्कार्यस्य स्थैर्यस्योपपत्तेर्विरुद्धत्वप्रत्यायकम् । विरो- धस्य चात्राभासमानत्वम् । धम्मिल्लबन्धमन्युस्थैर्ययोर्वस्तुतोऽपि कार्यकारणभावसद्भावा- भावाख्यस्य बाधकप्रत्ययस्योल्लासात् । न च याधौदयेऽपि विरोधाप्रतीतिः । द्विचन्द्रप्रतीतिव- दनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतेरवस्थानात् । न चातिशयोक्तौ स्खलद्गतित्वम्। निश्चयस्वभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् । नहि कार्यकारणयोः पौर्वा पर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किंत्वेवं फलमेतदिति अत एवासंगतैरतिशयोक्तेश्च स्वरूपभेदोऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिर्भिन्नदेशत्वेन चातिशयोक्तिरिति यथोक्तमेव युक्तम् । अत एव च ‘पौर्वापर्यविपर्याससमकालसमुद्भवौ । कार्यकारणयोर्यो तौ विरोधाभासपल्लवौ ॥' इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वम् । केचि- च्च सर्वालंकाराणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्रकारतामाचक्षते । तथा ह्युपमायाम- यस्त्येतद्भेदत्वम् । न्यूनगुणस्य मुखादेरधिकगुणेन चन्द्रादिना साम्येऽतिशयानतिपाताद तिशयं विना च गौरिव गवय इत्यादावनलंकारत्वात् । अतश्चातिशयस्यैव सर्वालंकारबीज- भतत्वात् ‘एकैवातिशयोक्तिश्च काव्यसालंकृतिर्मता’ इत्युक्तम् । नैतत् । इह त्यतिशयस्य ?