पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
काव्यमाला ।

कारप्रस्तावे प्रपञ्चार्थं लक्षयिष्यते । एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थग- तत्वेन तेषां द्वैविध्ये पदार्थगतमलंकारद्वयमुच्यते--

औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा स- मानधर्माभिसंबन्धे तुल्ययोगिता ।

इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्थं तुल्ययोगिता । यथा-

सज्जातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ।

 अत्र ऋतुवर्णनस्य प्रक्रान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद्वृद्धिगमनं क्रिया । एवं गुणेऽपि । यथा--


स्यात् । तत्रापि धर्माणामैव भेदेऽभेदविवक्षणात्। एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्तिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन । प्रपञ्चार्थमिति । न तु निर्णयार्थम् । इहैव तस्य निश्चितत्वात् । प्रपञ्चश्च तत्रैव दर्शयिष्यते । एतदुपसंहरन्नन्यदवतारयति-- एवमित्यादिना । गम्यमानौपम्याश्रया इति इवाद्यप्रयोगात् । पदार्थमिति । वाक्यार्थापेक्षया पदार्थप्रतीतेरन्तरङ्गत्वात् । तत्र प्रथमं तुल्ययोगितामाह-औपम्ये त्यादि । एतदेव व्याचष्टे--इत्यादिना । तत्रेत्यौषम्यस्य गम्यत्वे सति । प्रा- करणिकानामिति द्वयोः समानधर्मसंबन्धस्य संभवादेव प्रह्णसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थम् । अत एव च बहूनामौपम्यग्रहणायेति न वाच्यम् । वक्ष्यमाणोदाहरणेषु द्वयो- रौपम्यस्यौद्भासमानत्वात् । एवं दीपकेऽपि ज्ञेयम् । अन्वितार्थेति । समानधर्मसंबन्धि- नामत्र भावात् । अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्मकधर्मयौगद्वैविध्येन चतुष्प्रकारत्वमयुक्तम् । न चास्यातिशयोक्तिरनुप्राणकतया वाच्या । तां विनापि वक्ष्य- माणोदाहरणेष्वस्याः संभवात् । औपम्याभावेऽपि गुणसाम्यौदाहरणद्वयं प्राच्योदाहृतत्वा- द्वन्थकृतोदाहृतम् । यत्र पुनरौपम्यं प्रतीयते तदुदाह्रियते यथा--‘ईर्ष्याविकारावसरे तवो- चितमिदं प्रिये । स्खलद्गतित्वं वचसां लीलाचङ्कमणस्य च ’ अत्रोचितत्वं गुणः । अप्रकृ- तयोस्तु यथा-‘भूभारोद्वहनव्यग्रे सुचिरं त्वयि तिष्ठति । देवाद्य फणिनामभ्यः कूर्मश्च सुखिनौ परम् । अत्र सुखित्वं गुणः । केचिच्च नायिकामिलितयोः प्राकरणिकत्वं मन्यन्त


१. ‘संजात’ क-ख. ‘सज-आतपत्र’ इति दिनपक्षे छेदः; ‘सत्-जात-पत्र’ इति च पद्मपक्षे. २. ‘प्रक्रान्तत्वम्’ क.


१. ‘प्रन्थषणोदीरणेन’ क. २. निगीर्णत्वात्’ क. ३. ‘बहूनामेव' ख.