पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
काव्यमाला ।


कत्र निर्दिष्टः समानो धर्मः प्रसङ्गनान्यत्रोपकाराद्दीपनादीपसादृश्येन दीप-. काव्यालंकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धप्राकरणिकत्वे वा वैव- क्षिकः । अत्र प्राकरणिकत्वाप्राकरणिकत्वविवर्तित्वादुपमानोपमेयभावस्या- नेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः । वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । क्रमेणोदाहरणम्-

रेहइ मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम् ।
अमएण धृणीधवलो तुमएण [अ] णाह भुवणमिणम् ।

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पलवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥'


अभावात् । तत्रेति दीपके । वास्तव इति । प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात्। पूर्व त्रेति तुल्ययोगितायाम्। इयानेव च दीपकतुल्ययोगितयोर्विशेषोऽस्तीत्यप्यनेन दर्शितम् । न

  • चैतावतैवानयोः पृथग्लक्षणं युक्तम् । औपम्यगर्भवाख्यस्य सामान्यस्य द्वयोरप्यनुगमात् ।

एवं च समुचितोपमादेरपि पृथग्लक्षणं स्यात् । ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कुतम् । वैवक्षिक इति । यत्रैव वक्तुरुपमानत्वमुपमेयत्वं वा वक्तुमिष्टं तत्रैव प्रकरणादिबलादा- श्रयणीयमित्यर्थः । अतश्च ‘प्रस्तुतस्य विनान्येन व्यभिचारस्य दर्शनात्’ इति नीत्या प्रस्तु- ताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः । एवं ‘प्रसिद्धेनाप्र- सिद्धस्य सादृश्यमुपमा मता’ इत्यादिदृशा प्रसिद्धप्रसिद्धत्वमात्रनिबन्धनोऽप्युपमानोपमे- यभावो न वाच्यः। ‘खमिव जलं जलमिव खं’ इत्यादौ द्वयोरपि तुल्यत्वात् । प्रसिद्धगुण- त्वाद्यभावेऽप्युपमानोपमेयभावस्येष्टेर्व्यभिचारस्य दर्शनात् । ननु चात्र साधर्म्यं वाक्यार्थगत- त्येनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्कयाह-अनेकस्येत्यादि । एवं पूर्वत्रापि ज्ञेयम्। धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदा- ह्रियते—‘धम्मञणेण काण वि काणवि अथजणेण बोलेई । कामजणेण काण वि काण वि एमेअ संसारो ।’ ऐकक्रियमित्यनेनैकगुणमपि दीपकं स्वयमेवोदाहार्यमिति सूचितम् ,


१. ‘दीपकालंकारोद्दीपकः’ ख. २. ‘राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौ वनम् । अमृतेन • • • • • • • • त्वया च नाथ भुवनमिदम् ॥’ इति च्छाया. ३ ‘अजी- घवलों’ स्ख.


१. ‘तु नान्येन' क. २. ‘एकक्रियेत्यनेनैक ' ख.