पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
अलङ्कारसर्वस्वम्


‘किवणाणँ धणं णाआणँ फणमणी केसराईँ सीहाणम् ।
कुलवालिआणँ थणआ कुत्तो छेप्पन्ति अमुआणम् ॥

एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगतत्वेनै- कक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा--

साधूनामुपकर्तु लक्ष्मीं धर्तुं विहायसा गन्तुम् ।
न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ।


तत्तु यथा -‘फणासहस्रभृदधो दिवि नेत्रसहस्रभुत् । अद्वितीयः पृथिव्यां च भवान्नाम- सहस्रभृत् । अद्वितीयत्वं गुणः । एवमेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्यनेकक्रियागतत्वेन दीपकं भवतीत्याह-अत्रेत्यादि । अत्र चोच्छासवर्णनीयं भैरवाचार्यादिसक्तमुपकारकरणादिविशेषरूपं प्रस्तुतं श्रोतृनवबोधयितुं कविकर्तृकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनम् । तेषां च सा- मान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता । अतश्च नेदं का- रकदीपकस्योदाहरणम् । तत्तु यथा-‘आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमद्भुतरसां हृदये च कर्तुं मन्दादरं जनमहं प- शुमेव जाने । अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः । प्रस्तुताप्रस्तुतं स्फुटमेव । स्विद्यति कूणाति वेल्लति विवलति निमिषति विलोकयति तिर्यक् । अन्तर्न- न्दति चुम्बितुमिच्छति नवपरिणीता(णया)वधूः शयने ।’ इत्यत्र तु स्वेदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच्च समुच्चयालंकारो न तु कारकदीपकम् । तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यसद्भावे भवति । एवं सर्वक्रियाणां प्रस्तुतत्वेऽपि समुचययौपम्याभावादेव तुल्ययोगितातोऽपि भेदः । औपम्यसद्भावेऽपि तुल्ययोगितैव । यथा—‘चकार दुर्बलानां यः क्षमामागस्विनामापि । जहे निरपराधानामपि यश्च बली- यसाम् ॥’ अत्र करणहरणयोः प्रकृतत्वम् । द्वयोरपि राजगतत्वेन वर्णनीयत्वात् । इदं बिम्बप्रतिबिम्बभावेनापि भवति । यथा-‘मणिः शाणोल्लीढः समरविजयी हेतिनिहतः कलाशेषश्चन्द्रः सुरतमृदिता बालललना । मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः । अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्ब भावः । शुद्धसामान्यरूपत्वं यथा-फणरअणाइअङ्गो भुअंगणाहो धरं समुव्वहइ । णह- दर्पणोवसोहिअसिहो अ तुह णाह भुअदण्डो ।' अत्र राजितत्वशोभितत्वयोः शुद्धसामा- न्यरूपत्वम् । नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षितं तदिहापि किं न लक्ष्यत इत्या-


१. ‘कृपणानां धनं नागानां फणमणयः केसराणि सिंहानाम् । कुलवालिकानां स्तनाः कुतः स्मृश्यन्तेऽमृतानाम् ।' इति च्छया.


१. ‘कीति निधापयितुमर्थयितुं’ ख. २. ‘वल्गति’ ख. ३. ‘फणरलराजिताङ्गो भुजं गनाथो धरां समुद्वहति । नखदर्पणोपशोभितशिखश्च तव नाथ भुजदण्डः ॥' इति च्छाया.