अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहूलविशिष्टं मनो निर्दिष्टम् ।
छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते ।
वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा ।
पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकार-
प्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा। वस्तुप्रतिव-
स्तुभावेन सकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययो-
गिते । असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा ।
आद्यः प्रकारः प्रतिवस्तूपमा । वस्तुतः शब्दस्य वाक्यार्थवाचित्वे प्रतिवा-
क्यार्थमुपमाः । साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण
पृथद्निर्देशः । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव
प्रतिवस्तूपमा । यथा-
‘चकोर्य एव चतुराश्चन्द्रिकाचौमकर्मणि ।
आवन्त्य एव निपुणाः सुदृशो रतनर्मणि ।
शङ्कयाह-छायेत्यादि । छायान्तरेणेति श्रृङ्खलारूपेण । प्रस्तावान्तर इति श्रृङ्खला- बन्धोपचितरूपत्वात् । वाक्यार्थेत्यादि । एतदेव व्याख्यातुमलंकारान्तरैः सहास्या विभागं दर्शयति--तत्रेत्यादिना । ‘तया स पूतश्च विभूषितश्च’ इत्यत्रोपमायां सकृ- न्निर्देशः । ‘पाण्ड्योऽयमंसार्पितलम्बहारः इत्यादावपि चासकृन्निर्देशः । तदेवमिवाद्यु- पादाने साधारणधर्मस्य यथासंभवं स्वरूपं निरूप्येवाद्यनुपादानेऽपि निरूपयति–इवादी- त्यादिना । यद्यपि दीपकतुल्ययोगितयोः सामान्यस्यासकृन्निर्देशोऽपि संभवति तथापि सकृन्निर्देशं विना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तम् । असकृन्निर्देशश्च द्विधा भवती- त्याह-असकृदित्यादि । आद्यः प्रकार इति शुद्धसामान्यरूपत्वम् । यदि चात्र सामान्यस्यैकरूपत्वमेवास्ति तत्किं पर्यायान्तरेण पृथङ्निर्देशः क्रियत इत्याशङ्कयाह- केवलमित्यादि । यदुक्तम्-‘नैकं पदं द्विः प्रयोज्यं प्रायेण' इति । बिम्बप्रतिबिम्बभावो द्वितीयः प्रकारः । एवमेतदुपसंहरन्प्रकृतमेव सिद्धान्तयति-तदेवमित्यादिना । औपम्याश्रयेणेति । एतदभिदधता ग्रन्थकृता प्रतिवस्तूपमाया दृष्टान्ताद्भेदो दर्शितः। यतोऽस्याः प्रकृतार्थस्य विशेषाभिधित्सया सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते । अत- एव चात्र प्रकृताप्रकृतयोरुपमानोपमेयभावः । दृष्टान्ते पुनरेतादृशो वृत्तान्तोऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्याविस्पष्टा प्रतीतिर्मा भ्रूदिति प्रतीतिविषदीकरणार्थमर्थान्तरमुपादीयते ।
१. 'पान' ख.
१. ‘साम्यस्य’ ख. २. विशेषानभिधित्सया' ख.