अत्र चतुरत्व साधारणा धर्म उपमेयवाक्ये निपुणपदेन निर्दिष्टः । न
केवलमियं साधर्म्येण यावद्वैधर्म्येणापि । यथात्रैवोत्तरस्थाने 'विनावन्तीर्न
निपुणाः सुदृशो रतनर्मणि' इति पाठे ।
तस्यापि बिम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः ।
तस्यापीति न केवलमुपमानोपमेययोः। तच्छब्देन सामान्यधर्मः प्रत्य-
वमृष्टः । अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः। आद्यो यथा--
‘अब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।
दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ।
अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौ-
अत एवात्रार्थान्तरोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रतिपत्तुः प्रकृतार्थप्रतीतैरवि- स्पष्टतानिरासात् । केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भेदमाहुः । तदसत् । यतः सरूपयोर्विशेषयोः समर्थ्यसमर्थकभावो न भवति । वस्त्वन्तरेण वस्त्वन्तरसिद्धयनु- पपत्तेः। नहि सामान्यविशेषयोरेव भवति । सामान्यस्य नियमेन विशेषनिष्ठत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् । यदि चात्र समर्थसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलंकारता न स्यात् । समर्थ्यसमर्थकभावात्मनः सामान्यस्योभयत्राप्यनुगमात् । अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः । तदप्यसत् । एतावतैवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वा दुपमाभेदवदनयोः पृथगलंकारत्वानुपपत्तेः । तदेवं वाक्यनैरपेक्ष्येऽपि वक्तृप्रतिवक्रोरेव विशेषादनयोर्भदः सिद्धः। वैधर्म्येणापीति । भवतीति शेषः। तस्यापीति । उप- मानोपमेययोरिति । प्रकृताप्रकृतयोर्धर्मिणोरित्यर्थः । अतश्च धर्माणां धर्मिणां च बिम्बप्रतिबिम्बभावेन निर्देशोऽयमलंकारः । यदुक्तमन्यत्रापि-‘दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्’ इति । उपमानोपमेययोरिति तु स्वार्थ एव (न) व्याख्येयम् । अर्थान्तरस्य प्रकृतदार्ढ्यायोपादानात्सादृश्यस्याविवक्षणात् । आद्य इति साधर्म्येण । यथा वा-स्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहक- विप्रकीर्णैः रत्नाकरो भवति वारिभिरम्बुराशिः । अत्र स्थानादीनां शुक्त्यादिभिः प्रति-
१. उपमामक. २. ‘कर्मणि’ क.
१. ‘प्रतिपत्तेः क. २. ‘प्रतिपयोःक.