पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८

एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

दावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । रसवत्प्रेयः प्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव ।

प्रतिपादितम् । इदानीमलंकारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयति -- रूपकेत्यादिना । तत्र रूपकं यथा - 'भीमभ्रूकुटिपन्नगीफणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम् । घ्राणस्याटिकर्मल्लिकापरिचिते भालाग्रशालाजिरे दीप्रा दीपशिखा शिवस्य नयनं कार्षाणवं पातु नः ॥' अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते । तां विना सादृश्याप्रतिपत्तेः । दीपकं यथा - पाउिअब​न्धं पढिउं वन्धेउं तह अ कुजकुसुमाइँ । पोढमहिलं अ रमिउँ विरलञ्चिअ के वि जाणेन्ति ।' अत्र प्राकृतबन्धपाठादेरुपमावाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धात् । अपहुतिर्यथा - ‘अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥' अत्र कलङ्कस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायावगम्यत एव । तुल्ययोगिता यथा - ‘द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् । अधरमर्धसमर्पितमाननाद्वय​घटयन्त कथंचन योषितः ॥’ अत्र भुजादीनां सादृश्यावगमादुपमावाच्योपस्कारायावगम्यते । तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेर्ग्र​हणम् । उपमादीत्यादिशब्दादुपमेयोपमादीनाम् । तत्तु यथा - ‘प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्याः । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥' अत्र वाच्याया निदर्शनाया उपस्कारकत्वेनोपमेयोपमा गम्यते । तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः । अतश्चात्रालंकारो गम्यमानः स्थितो न वस्तुमात्रम् । तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव । तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् । वाच्योपस्कारकत्वेनेत्युत्तरत्रापि योजनीयम् । तेन वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेति समन्वयः । सा तु - ‘महिलासहस्सभरिए तुह हिअए सुहअ सा अमायन्ती । दिअहं अणण्ण अम्मा अङ्गं तणुअं पि तणुएइ ॥' इति । तदित्थ​मलंकारोऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः । अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह - रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः । आदिशब्दाञ्च तदाभासादयः । तत्र रसवदलंकारो यथा - ‘कृच्छ्रेणोरुयुगं व्यतीत्य सुचि-


१. मल्लिका दीपाधारदण्डः. २. ‘प्राकृतबन्धं पठितुं वद्भुं तथा च कुञ्जकुसुमानि । प्रौढ​महिलां च रन्तुं विरला एव केऽपि जानन्ति ॥' इति च्छाया. ३. महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोति ॥' इति च्छाया.