पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
अलङ्कारसर्वस्वम्


अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः।। असंभवद्वस्तुसंबन्धा यथा---

‘अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्सरचापलीलाम् ।
जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुः ।।

अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभव- ल्लीलासदृशीं लीलामवगमयतीत्यदूरविप्रकर्षाप्रतिबिम्बकल्पनमुक्तम् । ए पापि पदार्थवाक्यार्थवृत्तिभेदाद्विविधा । पदार्थवृत्तिः समनन्तरमुदाहृता ।

‘त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।

केचित्तु दृष्टान्तालंकारोऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोहिं बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारो- प्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः । एवं च


जात इत्येवमात्मिकायाः प्रतिपत्तेरभावात् । अतश्च सत्यसति वा संयन्धे निदर्शनेति वाच्यम् । तेन यथोक्तमेव भेदद्वयं स्यात् । असंभवदिति । धर्म्यन्तरसंबन्धिनो धर्मस्य धर्म्य- न्तरेऽन्वयायोगात् । अदूरविप्रकर्षादिति । धर्ममुखेन सादृश्यस्स किंचित्प्रत्यासन्न- त्वात् । यथा वा-‘अङ्गे पुलअं अहरं सवेपिअं जम्पिअं ससिक्कारम् । सव्वं सिसिरेण कअं जं काअव्वं पिअअमेण । अत्र वल्लभकार्यस्य पुलकादेर्धर्मस्य वस्त्वन्तरभूतेन शिशिरेण करणमसंभवत्तस्य साम्यमवगमयतीति शिशिरस्य वल्लभतुल्यताप्रतीतेरौपम्यम् । अतश्चात्र धर्माणामसंबन्धाभावान्न निदर्शनेयुक्ता प्रतिमालंकारत्वं न वाच्यम् । प्रतिमायाश्चान्यो- दाहरणेष्वलंकारान्तरादियोगः स्फुट एवेति न पृथगलंकारत्वं वाच्यम् । एवमन्येषामपि समग्राणामभिनवालंकाराणां चान्यैरन्यालंकारयोगो योजयितुं शक्य एवेति ग्रन्थविस्तर- भयादस्मद्दर्शने तद्दूषणोद्धरस्यैव च प्रतिज्ञातत्वादस्माभिः प्रतिपद्येन (न) दूषितम् । न पुनरेतावतैव परमतमप्रतिषिद्धमनुमतमेवेति दृशा एषामपि पृथगलंकारत्वं युक्तं मन्तव्यम् । एषेत्यसंभवद्वस्तुसंबन्धनिबन्धना । न केवलं निदर्शना यावत्सद्भदौऽप्ययं द्विविध इत्यपि शब्दार्थः । उदाहृतेति ‘अव्यात्स वः इत्यादिना । केचिदिति श्रीमम्मटादयः । तदिति . दृष्टान्तालंकारवचनम् । एतदन्यत्रापि योजयति-एवमित्यादिना । उक्तन्याये


१. ‘बालैःक. २. ‘प्रतिपाद्य तेन’ ख. ३. ‘पुनस्तावतैव' ख. ४. ‘अशे षाणमपि’ ख.