पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
काव्यमाला ।


‘शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः


इत्यत्र दृष्टान्तबुद्धिर्न कार्यो । उक्तन्यायेन निदर्शनाप्राप्तेः । इयं सामान्येनैवासंभवात्प्रतिपादिता उपमेयवृत्तस्योपमाने संभवादपि भवति उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् । तद्यथा-

वियोगे गौडनारीणां यो गण्डतलपाण्डिमा
अलक्ष्यत स खर्जुरीमञ्जरीगर्भरेणुषु


अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिम्नः खर्जुरीरेणुषु सँभवादौ पम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा-


नेति । प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य समानाधिकरण्येनाध्यारोप्यमाणत्वात्।अत- श्चान्यैर्वाक्यार्थयोः समानाधिकरण्यनिर्देशाच्चूौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम्, यत्पुनः प्रतिवस्तूपमोदाहरणत्वमुक्तं तदयुक्तमेव । निरपेक्षयर्वाक्यार्थयो- धर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा न चात्रैकमपि संभवति । वाक्यार्थयोः सा- पेक्षत्वाच्छुद्धसामान्यरूपत्वात्भावाच्च। अर्थापत्युदाहरणत्वमप्यत्रायुक्तम् । ‘जाग्रतः क- मलाल्लक्ष्मीं यज्जग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिः ॥' इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पी(त्पापी ?)यः । अत्र हि वाक्यार्थयोः परस्परं सादृ-. यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः एवंविधमैव चान्यत्र सर्वालंका- रोदाहरणेष्यासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयान्न दर्शितम् । तथा च आज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य स चापि सौन्दर्यविशेषबन्दी यत्रेन्दु- रिन्दीवरलोचनानाम् ॥’ इत्यत्र विषयविषयिणोर्द्वयोरप्युपादानात्स्फुटेऽपि रूपकत्वेऽति- शयोक्त्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वानि- दर्शनेनेत्यलं बहुना । असंभवद्वस्तुसंबन्धनिषन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्तरोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव सं- भवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमानेऽपीत्याह--इयमित्यादि । उभयत्रे- त्युपमेये उपमाने वा । वसन्तवर्णनस्य प्रक्रान्तत्वाद्वयोः प्रकृतत्वेऽपि गण्डतलस्योपमे यत्वम् । तद्गतत्वेनैव पाण्डिम्नः सिसाधयिषितत्वात् । सिद्धसाध्यधर्मत्वमेव चोपमानोपमे


सामान्येनौपमानवृत्तस्योपमेयेऽसंभवात् ख. २. ‘संबन्धन' क. ३. ‘अदृश्यत’ ख. ४. ‘असंभवात्' ख.


१. ‘असामान्य' ख. २. ख. ३. ‘गतिः’ ख. ४. ख. ५. ‘उपचारात्’ क. ६. निर्मुलनैन’ ख.