पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
अलङ्कारसर्वस्वम्


आ मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि ।
जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ।


क्वचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति । यथा--

‘ङत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरक्ष्माभृता
मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशाम् ।
पद्भयां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि
क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः ।


अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोर्हंसगतिप्राप्तिरा- क्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्ध- निबन्धना निदर्शना ।

भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः।

अधुना भेदप्राधान्येनालंकारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा

भवति । उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणम्--


यत्वम् । यथा वा-‘त्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरषि क्षपायाः । कथं त्व- नेनाहृतमेतदद्य कलावतां वा किमसाध्यमास्ति ।’ अत्र चाटुषु नायिकायाः प्रस्तुतत्वाद्व- क्रमुपमेयम् । तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः । एष इत्यसंभवद्वस्तुसंबन्ध- निबन्धनो वा वाच्यः । आक्षिप्ताया इति । प्राप्तिपूर्वकत्वान्निषेधस्य । सेति प्राप्तिः । सादृश्यमिति । पादयोर्हंसगतितुल्याया गतेः प्रतीतेः । इयं च सामान्यस्यानुगामि- तया । यथा-अव्यात्स व इत्यादि । अत्र निसर्गवक्रताख्यधर्मस्यानुगामित्वम् । शुद्धसामान्यरूपत्वेन यथा—हारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः । फणीन्द्रबद्धजूटस्य श्रियमाप स धूर्जटेः ।' अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावेन । यथा—‘उह सरसदन्तमण्डलकपोलपडिमागओ मअच्छीइ । अन्ते सिन्दूरिअसङ्खवत्त करणिं वहइ चन्दो ॥’ अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिबिम्बभावः । भेदप्राधान्य इत्यादि । अधुनेति प्राप्तावसरम् । भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः ।


१. इयं प्राकृतच्छाया कपुस्तके वर्तते, प्राकृतं तु नास्ति. ख-पुस्तके तु ‘मुंडभिदिवो रफलवरोकरीवलो अथैरंधरसि । विगुश्चावसि अप्पाणालिआ छेआ छलिंगाति ॥’ इत्य त्यशुद्धं प्राकृतमस्ति. २. ‘यत्कोपे' ख. ३. ‘असंभवत्संभवनिदर्शना' क.