दिदृक्षवः पक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते ।
वापीसु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदौघाः ॥
क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥
अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलताया अधिक- गुणत्वम् । चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन त- स्यापुनरागमात् ।।
सादृश्य एव पर्यवसानात् । अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदौ नास्य विषयः । यथा--दिव्योत्तरीयभृति कौस्तुभरत्नभाजि देवे परे दधतु लुब्धधियोऽनुबन्धम् । रूपं । दिगम्बरमखण्डनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायै ॥’ अत्र वैष्णवेभ्यः स्वात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यम् । स इति भेदः । तस्याधिक्यविपर्ययाभ्यां द्वैविध्यातिरेकोऽपि द्विविधः । तदाश्रयत्वादस्य । चन्द्रापे- क्षयेति । शशियौवनयोर्हि समानेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततोऽस्य न्यूनगुणत्वम् । नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तम् । उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्तत्वे चालंकारत्वानुपपत्तेः । यौवनस्य चात्रा- स्थिरत्वे प्रतिपाद्ये चन्द्रफेक्षयाधिकगुणत्वमेव विवक्षितम् । यदैतच्चन्द्रवद्यातं सन्न पुनराया- तीति । असदेतत्। यतोऽत्र चन्द्रवद्गतं सयौवनं यदि पुनरप्यागच्छेत्तत्प्रियं प्रति चिर- मीर्ष्यानुबन्धो युज्येत । कालान्तरेऽपि ह्यस्य तदवलोकनादिना सफलीकारः स्यात् । इदं पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह स- फलयितव्यमिति धिगीर्ष्यो त्यज प्रियं प्राति मन्युं कुरु प्रसादमित्यस्मिन्प्रियवयस्योपदेशे • प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेनैव विवक्षितमिति वाक्यार्थविद एव प्रमाणम् । नचैतद्वास्तवमुपमेयस्य न्यूनगुणत्वम् । तस्यैव सातिशयत्वेन प्रतिपाद्यत्रात् । प्रकृताथोंपरञ्जकत्वे हि सर्वथा कवेः संरम्भः । तच्चाधिकगुणमुखेन भवत्वितरथा वा को विशेषः । तस्माद्युक्तमेव विपर्यये वेति सूत्रितम् । प्रत्युत प्रतिकूलत्वं वेति सूत्रितमयुक्तम् । उपमानादुपमेयस्याधिक्ये इत्येतावतैव लक्षणेनास्य व्याप्तत्वात् । यतः ‘स्वरेण तस्या अमृतस्नुतेव' इत्यादावन्यपुष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वा- दिना न्यूनत्वावगतेरुपमेयभूताया भगवत्याः संबन्धिनः स्वरस्यामृतस्नुतेवेत्यभिधानादानन्दा- तिशयदायित्वादेश्चाधिक्यमेवावगम्यत इत्यलं बहुना । अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः । तत्रानुगामिता यथा--"नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदली- विशेषाः । लब्धापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ’ अत्र परिणाहि .
१. ‘कोणापगमाय’ क.