पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
अलङ्कारसर्वस्वम्



उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः
भेदप्राधान्य इत्येव । गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् । स- हार्थप्रयुक्तश्च गुणप्रधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयो- रपि प्राकरणिकत्वादप्राकरणिकत्वाद्वाः सहार्थसामर्थ्याद्धि तयोस्तुल्यकक्ष- त्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच्च परिशि- ष्ठस्य प्रधानत्वादुपमेयत्वम् । शाब्दश्चत्र गुणप्रधानभावः । वस्तुतस्तु वि- पर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः सा च कार्यका- रणः प्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेष- भितिकोऽन्यथा वा । साहित्यं चात्र कत्रदिनानाभेदं ज्ञेयम् । तत्र च कार्य- कारणप्रतिनियमविपर्ययरूपा यथा—‘मवदपराधैः सार्धं संतापो वर्धते_तरा- मस्याःअत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः।


रूपत्वयानुगामित्वम् । वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतम्-दिदृक्षव इत्यादि। अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वम् पक्ष्मलताविलासविकस्वरयोश्च बिम्बप्र तिबिम्बभावः । उपमानेत्यादि किं हेतुकं चात्र गुण त्यादि । गुणप्रधानभावोऽपि किं हेतुक इत्याह-सहार्थेत्यादि । एकस्य प्रधानभू- तविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् । वैवक्षिकमिति न पुनर्वास्तवम्। उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वे भवति तद्यात्र किं निमित्तकमित्याशङ्कयाह-स- हार्थैत्यादि । परिशिष्टस्येति प्रथमान्तस्य । शाब्द इति न पुनरार्थः । वस्तुतो विपर्य यस्यापि संभवात् । एवं गुणप्रधानभावनिमित्तकं भेदप्राधान्यमपि शब्दमेवात्र ज्ञेयम् वस्तुतो हि सादृश्यस्यैव पर्यवसानाद्भेदाभेदयोस्तुल्यत्वेनैव प्रतीतिः । तस्माच्छाब्दमेव भेद- प्राधान्यमाश्रित्यैहास्या वचनम् । विपर्यय इति । प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यम् । नियमेनेति । अनेनातिशयोक्त्यनुप्राणनमन्त- रेणालंकारत्वमेवास्या न भवतीति ध्वनितम् । सेत्यतिशयोक्तिः । कार्यकारणयोः प्रति नि- यमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः । (अथ च कार्यकारणवत्प्रतिनियमस्य क्रमस्य वि पर्ययस्तुल्यकालत्वादिनोक्तेः । अन्यथेत्यश्लेषरूपः तदेवमस्या अतिशयोक्तिभेदचतु- ष्टयमनुप्राणकम् । कर्त्रादीति आदिशब्दाकर्मादयः । तत्रेति निर्धारणे । अस्यामनुप्राण-


१. ‘संबन्धः क. २. ‘गुणभावात्' ख. ३. ‘आश्चर्यपरिशिष्टस्य १४. पुस्तकद्वये ऽप्यस्योत्तरार्ध मूले लिखितम्, ११