पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
काव्यमाला ।


‘निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ।


इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्व- प्रतीतेः । इयं च परस्परविनोक्तिभङ्गया चमत्कारातिशयकृत् । यथोदाहृते विषये । द्वितीया यथा-

‘मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ।


अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्गयोक्तः। सैषा द्विधा विनोक्तिः। अधुना विशेषणविच्छित्याश्रयेणालंकारद्वयमुच्यते । तत्रादौ विशेष- णसाम्यावष्टभ्भेन समासोक्तिमाह-

विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः।

इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम् । वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैविध्यम् । एतद्विभेद- मपि श्लेषालंकारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविपर्ययः।


यथा सहशब्दं विनापि सहार्थे तृतीयास्ति तथा विनाशब्दं विनापि द्वितीयादीनां विनार्थे सद्भा- वोऽस्ति । तथापि वाक्यार्थपर्यालोचनासामर्थ्योतदर्थः पर्यवस्यतीत्यस्य भावः । सहशब्दं विनापि सहार्थविवक्षा यथा-‘विवृण्वता सौरभरोरदोषं वन्दिव्रतं वर्णगुणैः स्पृशन्त्या विकस्वरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विवादः अत्र घ्राणेन सहेति तत्प्रयोगं विना तत्प्रतीतावेव विश्रान्तेः एवं चेति । यस्माद्विनाशब्दे विनापि तदर्थविवक्षा भवतीत्यर्थः । यथोदाहृत इति निर- र्थकमित्यादौ । यथा वा-‘हंसाण सरेहि' विणा सराण सोहा विणा ण हंसेहिं । अण्णोण्णं चिअ एए अप्पाणं णवरं गरुएन्ति । द्वितीयेति शोभनत्वनिषन्धनोक्तिः । तत्रेत्यलंकार- द्वयमध्यात् । आदाविति प्रधानतया । अस्या हि विशेषणमात्रावष्टम्भात्पारिकराद्विशेषणसा- म्यावष्टम्भत्वेन विशिष्टत्वम् । विशेषणेत्यादि । अस्याश्चालंकारान्तरेभ्यो विभागं दर्शयि- तुमुपक्रमते-इहेत्यादिना । वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्च भवति । गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य । प्रस्तुताप्रस्तुतयोस्तु न भवति । ताद्रूप्येण वस्तुसद्भावाभावात् । श्लेषनिर्देशभङ्गयेति । प्रस्तुतयोरप्रस्तुतयोश्च। पृथ -.


१. ‘द्वैधम्' क. २. 'विषयम्’ क.


१. ‘यार्थ’ ख. २. ‘लोभ' क; 'रोष' ख. रोरशब्दो दारिद्यवाचकःश्रीकण्ठच- रितस्थमिदं पद्यम्. ३. ‘तत्प्रतीतेरविश्रान्तेः” ख. ४. ‘वष्टम्भत्वे लिष्टत्वम्' ख.