पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
काव्यमाला ।


अत्र हि पत्रलिपिकायस्थशब्देषु श्लेषगर्भं रूपकं द्विरेफमषीलवैरित्ये- तद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या । तदेवं श्लिष्टविशेषणसमुत्थापितैका । साधारणविशेषणसमुत्था- पिता धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषणसमुत्थापितोपमा संकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः ।


हारिभिः। अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशः । अत्र ‘स्फुटसं- ध्यातपकुङ्कुमैःइति पाठे संध्यातपकुङकुमैरित्यौपम्यगर्भं विशेषणम् । साधारण्यसहचरितं यथा—‘तन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी । विकासमेति सुभग भवद्दर्श- नमात्रतः । अत्र स्तबकस्तनीत्यौपम्यगर्भं विशेषणम् । शुद्धकार्यसमारोपसहचरितं यथा—‘समारुरोहोपरिपादपानां लुलोठ पुष्पोत्करेणुपुजे । लताप्रसूनांशुकमाचकर्ष क्रीडन्वने किं न चकार चैत्रः । अत्र प्रसूनांशुकमित्यौपम्यगर्भं विशेषणम् । कैव-• लत्वं पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा—‘बभौ लोलाधरदलस्फुरद्दशनकेसरम् । भ्रूविलासालिवलयं लैलितं ललनामुखम् ॥’ अत्र लोलितत्वमुपमासाधकम् । समासान्त- राश्रयात्समानाविशेषणत्वं भवदपि नात्र समासोक्तेः प्रयोजकम् । एकदेशविवर्युपमामुखेनै- वार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । एवं दन्तप्रभेत्यादावपि शेयम् । दन्तप्रभाः पुष्पाणीवे- त्येवसमासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीते- र्व्यर्थत्वात् । अप्रकृतागूरणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या। चिरंतनानुरोधात्पुनरत्र ग्रन्थकृता समासोक्तिरुक्ता । यत्तु ‘यत्र समासोक्तावुपमायां समा- सान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरुक्ता’ इति वक्ष्यति तदपि चिरंतनानुरोधपरमैव । अन्यथा हि समानन्यायत्वादेकदेशविवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समासोक्तिरिति किं नोक्तम् । यतु नोक्तं तद्युक्तम् । रूपकमाहात्म्यात्प्रथममेव तत्प्रतीतिसिद्धेरनन्तरं समासोक्तिमुखेना प्रकृतप्रतीतेर्वैयर्थ्यात् । ‘आह्यदिचन्द्रवदना स्फुरत्तारकमौक्तिका । घनान्धकारधम्मिल्ला राजते गगनस्थली ॥' इत्यादौ पुनरुपमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः । न चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः । तस्यालंका- रसारकारादिभिनिराकृतत्वात् । समासोक्तिलक्षणावसरे किं रूपकनिरूपणेनेत्याशङ्कयाह अस्या इत्यादि । अस्याश्च यथोपपादितान्भेदान्संकलयति--तदेवमित्यादिना । भेदद्वयमिति साक्षात्संविद्यमानत्वेन वा । न विषय इति । यथोक्तोपपत्ते रूपक एव


१. ‘शनैः’ क. २. ‘केवलत्वे पुनरेकदेशविवर्तिन्युपमा यथा' क. ३. ‘वलितत्वं’ क. ४. ‘समासक्तायां ’ क.