तदेवं पञ्चप्रकारा समासोक्तिः । इयं च शुद्धकार्यसमारोपेण विशेषणसा- म्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्य- वहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा
समासोक्तिः । तत्र शुद्धकार्यसमारोपेण यथा-
'विलिखति कुचावुच्चैर्गाढं करोति कचग्रहं
लिखति ललिते वक्रे पत्रावलीमसमञ्जसाम् ।
क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं
मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम् ॥
अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्र-
तीतिः । विशेषणसाम्येनोदाहृतम् । उभयमयत्वेन यथा-
‘निर्लूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्ण रुग्जनिता कृतं च नयने नीलाञ्जकान्ते क्षतम् ।
यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः
किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम् ।
अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निर्लूनान्यलकानीत्या- दिश्च कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं यथा-
विश्रान्तेः । प्रथममिति । एतद्भेदत्रयमस्या मूलभूतमित्यर्थः । उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपम्। विशेषणसाम्यस्यैतद्द्भेदत्वात् । यद्यपि शुद्धकार्यसमारोपेऽपि विशेषणसाम्य- । मैवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्रिक्ततया प्रतीयत इति तस्य पृथग्भेदत्वमुक्तम् । सर्वत्रेति भेदसप्तके । बहुप्रकारेति । लौकिकादीनां व्यवहाराणामानन्यात् । उदाहृत- मिति उपोढरागेणेत्यादिना । क्रमेणेति यथोद्देशम् । मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता ।
१. ‘इत्थं शुद्ध क. २. ‘कुचान्’ ख. ३. ‘नीरसै’ ख. ४. ‘साम्यात्’ ख. ५. ‘इ- त्यादिभिश्च' ख.
१. बहुप्रपचेति’ ख. १२