‘द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब
रुद्धाम्बरां शशिकलामलिखत्कराग्रैः ।
अन्तर्निमग्नचरपुष्पशरोऽतितापा
कि किं चकार तरुणो न यदीक्षणाग्निः ॥'
लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् ।
'यैरेकरूपमखिलास्वपि वृत्तिषु त्वां
पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् ।
लोपः कृतः किल परत्वजुषो विभक्ते-
स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ।
अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः ।
सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं
न स्पृष्टं वचसा कदाचिदपि यदृष्टोपमानं न यत् ।
अर्थादापतितं न यन्न च न यत्तत्किचिदेणीदृशां
लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥
अत्र लावण्ये लौकिके मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वे-
दज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः।
‘स्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम् ।
मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥
अत्र तर्कशास्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया
व्याख्येयः ।
‘मन्दमग्निमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौ ॥
अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।
‘गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते
रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् ।
१. ‘तत्क्षणम्’ ख. २. ‘वृत्ते’ ख. ३. ‘लडितैःक. ४. ‘व्याख्येयः । तथा ख. ५. ‘राश’ ख.