पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
अलङ्कारसर्वस्वम्


इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या । विशेषणसाम्या भावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन ना- यिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या । गत्यन्तरासंभवात् । ३ यैस्तु नोक्ता तेषामुपमाख्ययैव । यत्र तु ‘केशपाशालिवृन्देन' इत्यादौ स- मासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौप- म्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।

सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्समर्थकग- तत्वेन भवति । क्रमेण यथा

‘अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा।
कासां ने सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ।
‘असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः।
अनाक्रम्य जगत्सर्वं नो संध्यां भजते रविः ।


अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहार- प्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्या- सेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षे त्यौपम्यगर्भं विशेषणं समासान्तराश्रयेणात्र समानम् । असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनि- र्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यव- हारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते ।

आकृष्टिवेगविगलद्भुजगेन्द्रभोग-
निर्मोकपट्टपरिवेषतयाम्बुराशेः ।


रेवेति । न पुनरेकदेशविवर्तिन्युपमा । गत्यन्तरमलंकारान्तरम् । यैरित्युद्भटादिभिः । यत्र .त्वित्यादेर्ग्रन्थस्य पूर्वमेवास्माभिरभिप्राय उक्तः । सेत्युक्तप्रपञ्च । सामान्यस्येत्यङ्गनाशब्दस्य स्त्रीत्वमात्राभिधानात् । श्लेषवशादिति । पयोधराणां हि क्लिष्टत्वम् । लिङ्गविशे- षेति । रविसंध्ययोः पुंस्त्रीरूपेण कार्यं भजनाख्यम् । एवमन्यालंकारसंमिश्रत्वमप्यस्या द- र्शयति- -आकृष्टीत्यादिना । सेत्युत्प्रेक्षा । एकः काल इति । ज्ञप्तौ समासोक्ति-


१. 'उपसंख्ययैव' क. २. ‘नायकनायिकाव्यवहारन्यासप्रतीत’ ख. ३. ‘नायक- नायिका ख. ४. ‘आकृष्ट' क.


१. ‘आकृष्टेत्यादिक.